________________
सप्तमोऽध्यायः ] सुबोधिनी - शेखरसहिता
[ ४२७
स्यामो 'मश् स्यात् । श्रकार उच्चारणार्थः । शिस्वात्सर्वादेशः । ' अस्तिसिचः - ' (सू. २२२५) इतीट् । वधीं वृत्रम् अवधिषमिति प्राप्ते । ३५६३ लोपस्त आत्मनेपदेषु । ( ७-१-४१ ) छन्दसिं 'देवा श्रदुद्द । अदुहतेति प्राप्ते । दक्षिणतः शये । शेते इति प्राप्ते । श्रात्मने इति किम् - उत्सं दुहन्ति । ३५६४ ध्वमो ध्वात् । ( ७-१-४२) अन्तरेवोष्माणं वारयध्वात् । वारयध्वमिति प्राप्ते । ३५६५ यजध्वैनमिति च । ( ७-१-४३) एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यज॑ध्वैनं प्रियमेधाः । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी । ३५६६ तस्य तात् । ( ७-१-४४) लोटो मध्यमपुरुष
-
नात् । तदेतदाह मियादेशस्येति । शित्वात्सर्वादेश इति । शित्करणाभावे तु 'अलोऽन्त्यस्य' इति मकारस्य स्यात् । 'आदेः परस्य' इति तु न, पञ्चमीनिर्देशाभावात् । न च मकारस्य मकारवचने प्रयोजनाभावात् सर्वादेशो भविष्यतीति वाच्यम् । मकारस्य मकारवचनमनुखारनिवृत्त्यर्थं स्याद् 'मो राजि समः कौ' इत्यत्र यथा । वधीमिति । हन्तेर्लुङ् 'नो वध लिङि' 'लुङि च' इति वधादेशः । ' च्लेः सिच्' इट् 'तस्थस्थ - ' इति मिपोऽम्भावः । तस्य मश् 'अस्तिसिचः -' इति मस्यापृक्तस्येट् 'इट ईटि' इति सिचो लोपः। सवर्णदीर्घत्वम् । 'बहुलं छन्दसि' इत्यडभावः । लोपस्त । आत्मनेपदेषु यस्तकारस्तस्य च्छन्दसि विषये लोपः स्यात् । अदुहेति । दुहेर्लुङ् 'आत्मनेपदेष्वनतः' इति झस्यादादेशः । ' बहुलं छन्दसि' इति रुट् तकारस्य लोपे द्वयोरकारयोः 'तो गुणे' इति पररूपम् । शये इति । शेते इत्यत्र तलोपे कृतेऽयादेशः । ध्वमो । ध्वमो ध्वादित्यादेशः स्याच्छन्दसि । वारयध्वादिति । वृञो ि लोट् । यज । वृत्तिकारस्तु यजध्यैनमिति पाठं ज्ञात्वा वकारस्य यकारश्च निपात्यत इत्याह । तद् दूषयति वकारस्येत्यादि । प्रामादिकीति | लक्ष्ये वकारपाठस्य निर्विवादत्वाद् । वेदभाष्येऽपि प्रकृतसूत्रस्य मलोपमात्रपरतोक्तेश्वेति भावः । तस्य । मध्यमपुरुषबहुवचनस्येति । प्रथमपुरुषैकवचनस्य तु न प्रहणम् । छन्दसि
1
तत्र च व्यत्ययेन ङीप् । शित्त्वादिति । मस्यापि मवचनमनुस्वारनिवृत्त्यर्थं स्यादिति भावः । वधीमिति । हन्तेर्लुङि वधादेशः, सिच इट्, मिपोऽमो मश्, तस्य 'अस्तिसिचः -' इतीट्, सिज्लोपः सवर्णदीर्घत्वम् । लोपस्त । श्रात्मनेपदेषु विद्यमानतकारस्य लोपः स्यात् । अदुहेरि । दुहेर्लङो झस्याsतो 'बहुलं छन्दसी 'ति रुद् तलोपे द्वयोरकारयोः पररूपम् ' छान्दसत्वादेव क्वचिन्न । ' तत एवात्मातमादृतं कुरुते ।
2
१ - 'ध्वमोध्वाद् इत्यादेशः स्याच्छन्दसि' इत्यादौ क्वचित् पाठः । स च प्रक्षिप्तः ।