________________
सप्तमोऽध्यायः] सुबोधिनी शेखरसहिता। [४२५ छन्दसि । (७-१-३८) यजमानं परिधापयित्वा । ३५६१ सुपां सुलुपूर्व सवर्णाच्छेयाडाड्यायाजालः । (७-१-३६) ऋजवः सन्तु पन्थाः। पन्थान इति प्राले सुः । परमे व्योमन् । व्योमनि इति प्राप्ते डेलुक् । धीती मती सुष्टुती। धीस्या मस्या सुष्टुत्येति प्रासे पूर्वसवर्णदीर्घः । या सुरा रथीतमोभी देवा दिविस्पृशा। अश्विना । यो सुरथौ दिविस्पृशावित्यादौ प्राप्त प्रा। नताद्ब्राह्मणम्। नतमिति प्राप्त प्रात्। या देव विद्म ता त्वां। यं तमिति प्राप्त। न युध्मे बाजबन्धवः । अस्मे इन्द्राबृहस्पती । युष्मासु अस्मभ्यमिति प्रा शे। उरुया । इत्यदडभावे 'अतोऽम्' इत्यम् । क्त्वो ल्यबिति । समासेऽनपूर्वे क्त्वो ल्यबिति प्राप्ते छन्दसि क्त्वापि विधीयते, तदाह क्त्वापि । अनपूर्व समासे क्त्वा इत्ययमादेशः स्यात् । अपिशब्दाल्लयबपि, स च समासेऽसमासे च भवति । अप्राप्तिविषये ल्यपः प्रापणार्थत्वादपिशब्दस्य । अन्यथा 'वा छन्दसि' इत्येव ब्रयात् । तथा च छन्दोविधिमन्. विदधानाः कल्पसत्रकारा अपि प्रयुञ्जते। प्राज्येनाक्षिणी अज्येति। परिधापयित्वेति । णिजन्तात्परिपूर्वाद्दधातेः क्त्वा तस्य ल्यवादशे प्राप्ते क्त्वादेशः सुपाम् । सुपा स्थाने सुलुकपूर्वसवर्णाातशेयाडाड्यायाच्आल् एते आदेशाः स्युश्छन्दसि । पन्था इति । 'व्यत्ययो बहुलम्' इत्येव सिद्धमिदम् । उक्तं हि तत्र 'सुप्तिकुपग्रह-' इत्यादि तस्येवायं प्रपशः । धीतीत्यादि । धीतीमतीसुष्टुतीशब्देभ्यस्तृतीयकवचनस्य पूर्वसवर्ण ईकारः प्रमाणत अन्तर्यात्सवर्णदीर्घत्वम् । दिविस्पृशाविति । प्राप्ते आ इति । अनेनादित्यत्राकारोऽपि प्रलियत इति दर्शितम् । नतादिति । नतशब्दादप् । तस्यादादेशः । न विभक्तौ तु-' इतीत्संज्ञाप्रतिषेधः। या देवत्यादि। यत्तच्छब्दादम् । न युप्मे इति । युष्मदः सप्तमीबहुवचनस्य शे आदेशः । शेषे देवेभिरिति । अतो न भवति । क्वचिदनतोऽपि भवति-नधेरिति। काऽपि । अपिना ल्यबपि । उद्धत्य तान् जुहोतीति । सुपां सु। सुपां स्थाने एते आदेशा इत्यर्थः । पन्था इति । जसः स्थाने सुः । छान्दसत्वात्सर्वादेशः। उकारोच्चारणसामर्थ्येन भौतपर्विकाऽनेकालत्वेन वा। व्यत्ययो बहुल'मित्यस्यायं प्रपञ्चः । 'सुपा सुपा' इत्याद्यप्येवम् । पूर्वसवर्ण इति । प्रान्तर्यादीकारस्ततः सवर्णदीर्घः । 'परमे व्योमन्' । अत्र पूर्वसवणे दकारे 'न डी'ति निषेधानलापाऽभाव संयोगान्तलोपेन सिद्धावपि संयोगान्तलोपस्याऽसिद्धत्वाल्लुगेवेति बोध्यम् । 'यत्सुन्वन्ती'त्यादौ यत् इ इति स्थिते पूर्वसवणे दकारे स्मिन्नापत्तिरिति तदर्थमनेकालमाद्यर्थञ्च लुगावश्यक इति
१- रथीतमा दिविस्पृशा' इत्येव बहुत्र पाठः ।