________________
षष्टोऽध्यायः ] सुबोधिनी-शेखरसहिता। [४२१ तस्य च । (६-३-१३६) एवा हि ते । ३५३६ अन्येषामपि दृश्यते । (६३-१३७) अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः। दण्डादण्डि । ३५४० छन्दस्युभयथा। (६-४-५) नामि दी? वा। धाता धातॄणाम् । इति बह्वचाः । तैत्तिरीयास्तु हस्वमेव पठन्ति । ३५४१ वा षपूर्वस्य निगमे । (६-४-६) षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् । ऋभुक्षणम् । निगमे किम्-तहा। तक्षाणौ । ३५४२ जनिता मन्त्रे । (६-४-५३) इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता । ३५४३ शमिता यज्ञे । (६-४-५४) शमयितेत्यर्थः । ३५४४ युप्नुवोर्दीर्घश्छन्दसि । (६-४-५८) ल्यपीत्यनुवर्तते । वियूय । विप्लूय । 'पाडजादीनाम्' (२२५४)। ३५४५ छन्दस्यपि दृश्यते । (६-४-७३) अनजादीनामित्यर्थः । पानट् । आवः । 'न माङयोगे' (२२२८) ३५४६ बहुलं छन्दस्यमाङ्योगेऽपि । (६४-७५) अडाटौ न स्तः, माझ्योगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय । मा स्थाने मः। चक्रति लिटो मध्यमपुरुषबहुवचनम् । निपातस्य च । दीर्घः स्यान्मन्त्रे । एवशब्दश्चादिषु पाठान्निपातः । छन्दस्यु । नामीति वर्तते । 'ढलोपे-' इत्यतो 'दीर्घ' इति च । तदाह नामीत्यादि। ऋभुक्षाणमिति । ऋभुक्षिन्. शब्द उणादिषु निपातितः । 'इतोऽत्सर्वनामस्थाने' इतीकारस्याकारादेशः । जनितति। जनयितेत्यर्थः । शमित । निपातनं पूर्ववत् । अानडिति । नशेर्नुङि 'मन्त्रे घस-' इति लेलुक् 'नशेर्वा' इत्ट त्याभावे 'वश्व-' इति षः । जश्त्वेन डः । तस्य चत्वेन टः । प्रावरिति । वृओ लुङि लेलुक् । गुणो रेफस्य विसर्गः । बहुलं छन्दसि । माज्योगेऽप्यमाङयोगेऽपि बहुलमडाटौ भवतः । अमायोगेऽपि न भवतः। माङयोगेदीर्घः । मन्त्रे इति । ऋग्रपे इत्यर्थः । यच इति किम्- अश्वा भवत वाजिनः । धातृणामिति । वृत्ति तस्तिसृचतस्रोरत्राऽनुवृत्तिस्त्वयुक्तेति भावः । षपूर्वस्याच इति । दीर्घश्रुत्योपस्थित याऽच इत्यस्य षपूर्वस्येति विशेषणम् , उपधाया इति च । अत एव पुल्लिङ्गाऽविरोधः । जनितेति। जनयितेत्यर्थः । तृचि रूपम् । शमिता यज्ञे । यज्ञविषये प्रयोग मन्त्रे इडादौ णिलोपो निपात्यते। सूत्रे प्रथमैकवचनमविवक्षितम् । 'शमितारे यदत्र सुकृते' 'शमितृभ्यश्चैवैनं शामित्र' मित्यादिदर्शनात् । वियूयेति। यु मिश्ररी, वियुत्य । विप्लूय, विप्लुत्येत्यर्थः । अानडिति । नशे रूपम् । आवरिति । ओ लुडि 'मन्त्रे घसेति च्लेलुकि रूपम् । अमाङयो