________________
षष्ठोऽध्यायः] सुबोधिनी-शेखरसहिता। [४१७ प्रकृत्या यजुषि । प्राणो अङ्ग अङ्गे प्रदीग्यत् । ३५२३ अनुदात्ते च कुधरे। (६-१-१२०) कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः । अयं सो अध्वरः । अनुदात्ते किम्-अधोऽग्रे रुद्रे । अपशब्द आधुदात्तः । कुधपरे किम्-सोयमनिमतः । ३५२४ अवपथासि च । (६-१-१२१) अनुदात्ते अकारादौ प्रवपथाःशब्दे यजुषि एङ् प्रकृत्या। श्रीरुद्रेभ्यो' प्रवपथाः । वपेस्थासि लङि 'तिङ्ङतिङः' (३६३५) इत्यनुदात्तत्वम् । अनुदात्ते किम्यद्रुद्रेभ्यो ऽवपथाः, निपातैयद्यदि' (३६३७) इति निघातो न । ३५२५ आङोऽनुनासिकश्छन्दसि । (६-१-१२६) श्राडोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या। अभ्र ाँ श्रपः । गभीर आँ उग्रपुत्रे । * ईषाअक्षादीनां छन्दसि
च । अङ्गशब्दे य एडिति । प्रकृत्या भवतीति वक्ष्यमाणेन संबन्धः । तदादौ प्रकारे च य एपूर्व इति । अत्रापि पूर्ववत्संबन्धः। अतिक्रान्तपरामर्शिना तच्छ. ब्देन इतिशब्दार्थमाचष्ट-तस्याङ्गशब्दस्य आदिस्तदादिस्तद्रूपो यः अकारस्तस्मिपरे पूर्वो य एङ् स इत्यथः । नन्वत्र च कारः किमर्थ इति चेच्छृणु-असति चका. रेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्ततश्चाङ्गे अङ्गे इत्यत्रैव स्यात् । अङ्गे अदीव्यदित्यत्र न स्यात् । सति तु तस्मिन्नङ्गशब्दस्य य एङ यत्र कुत्रचिदति प्रकृया भवति तदादौ चाति परतो यः कश्चिदेङ् स प्रकृत्या भवतीत्यय. मर्थो भवति । तेन अङ्गे अङ्गे अदीव्यत् । प्राणो अङ्गे इत्युभयत्रापि भवति । अन. दात्ते च कुधपरे । कुधौ परौ यस्मात्स तथोक्तः । कवर्गधकारेति। धकारे अकार उच्चारणार्थः । अग्निरिति । अग्निशब्दो 'अङ्गेनिनलोपश्च' इति निप्रत्ययान्तोऽन्तोदात्तः । अध्वरशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । श्राद्युदात्त इति 'जेन्द्र-' इत्यादिना सूत्रेण निपातितः । प्राङो। आङिति उिद्विशिष्ट आकारो गृह्यते । यः 'ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ठितं विद्याद्वाक्यस्मरणयोरहित्' इत्यनेन लक्षितः । यद्यपि अभ्र आँ अप इत्यत्र आकारो न ईषदर्थादिचतुष्टयवत्तिः साम्यर्थद्योतकत्वात् । तथापि वाक्यस्मरणयोरडिदित्य त्रैव तात्पर्यम् । अन्यत्र सर्वत्राङ् डिद्वेदितव्यः । एवं तावद्भाष्ये स्थितम् । अभ्र या अप इति।
शब्द इति । विद्यमान इति शेषः। तदादी चेति । षष्ठीतत्पुरुषः । सूत्रे 'इति' शब्दस्तच्छब्दसमानार्थः । कुधपर इति । बहुव्रीहिः, धकारेऽकार उच्चारणार्थः । आद्युदात्त इति। 'ऋजेन्द्राने'त्यत्र निपातनादिति भावः । आङोऽनु । विभक्त्यर्थ.