SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४१६ ] सिद्धान्तकौमुदी [ वैदिकीप्रक्रिया 1 यति एङ् प्रकृत्या | वसुभिर्नो अन्यात् । मित्रमहो श्रवद्यात् । मा शिवासो श्रवक्रमुः । ते नो त । शतधारो अयं मणिः । ते नतु । कुशिकासो' श्रवस्यवः । यद्यपि बहुवृचैखेनोऽवन्तु रथतूः, सोऽयमागात्, तेse भिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकारसमाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः । ३५२० यजुष्युरः । (६-१-११७) उरः शब्द एडन्तो-ऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् । यजुषि पादाभावादनन्तःपादार्थं वचनम् । ३५२१ आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बम्बालेऽम्बिके पूर्वे । (६-१-११८) यजुषि प्रति प्रकृत्या । आपो अस्मान्मातरः । जुषाणो नि 1 राज्य॑स्य । वृष्णो श्रंशु॑भ्याम् । वर्षिष्ठे श्रधि नाके । श्रम् अम्बाले अम्बिके । अस्मादेव वचनात् 'श्रम्बार्थ' ( २६७ ) इति ह्रस्वो न । ३५२२ अङ्ग इत्यादौ च । (६-१-११६ ) श्रृङ्गशब्दे यं एड् तदादौ च श्रकारे य एड् पूर्वः सोऽति सूत्रे कृतं द्विर्वचनं ये पठन्ति तेषामुदाहरणं मृग्यम् । बहुवृचास्तावदवक्रमुरित्यधीयते । अव्रतेति । वृञो 'मन्त्रे घस - ' इति च्लेलुक् । 'आत्मनेपदे' इति स्यादादेशः । श्रयमिति । इदमः सौ 'इदोऽय् पुंसि' । अवतेर्लोट् । अवन्तु । अवस्यव इति । प्रवेरसुन् श्रणादिकः । ततः क्यच् 'क्याच्छन्दसि' इत्युः । यजुष्युरः । उरो अन्तरिक्षमिति । नन्वत्र ' प्रकृत्यान्तःपादम्' इत्यनेनैव सिद्धे व्यर्थोऽयं योग इत्याशङ्कयाह यजुषि पादाभावादित्यादि । आपो जुषाणो । श्राप इत्यादीनि पृथक्पदान्यनुकरणानि विभक्तिस्तु अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वान्न भवति ‘सुपां सुलुक्' इति विभक्तेर्लुग्वा । श्रम्बिके पूर्वे इत्येतदप्यनुकरणमेव । तत्र प्रथमं जसन्तमनुकरणम् । द्वितीयं स्वन्तम् । तृतीयं शसन्तम् । चतुर्थ ङयन्तमितरे संबुद्धयन्ते । आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः अम्बिकेश ब्दात्पूर्वौ यौ अम्बेअम्बालेशब्दौ तौ च अति परतः प्रकृत्या स्युः । अङ्ग इत्यादौ अवतेर्लोटि श्रवन्तु । आपो जु । 'आपो' इत्यादीनि लुप्तविभक्तिकानि पृथक्पदानि अनुकरणानि । आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः, श्रम्बिकेशब्दापूर्वी अम्बेऽम्बाले इत्येतौ च यजुषि स्थितावति प्रकृत्येत्यर्थः । श्रम्बिकेपूर्वे इति चाऽस्मादेव निपातनात्पञ्चमीसमासः । 'आपो' इति जसन्तं, 'जुषाणो' इति स्वन्तं, 'वृष्णो' इति शसन्तं, 'वर्षिष्ठे' इति ङयन्तम्, इतरे संबुद्ध्यन्ते, अम्बेवालेऽम्बिके इति यजुष्ये[ वमे ]व पठ्यते । अस्मादेवेति । 'अम्बे' इत्येतद्विषयमिदम् । श्रङ्ग
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy