________________
षष्ठोऽध्यायः ]
सुबोधिनी - शेखरसहिता ।
[ ४१५
वक्तव्यम् । अ॒पां स्वेमन् । श्रपां खोद्मम् । ३५१७ भय्यप्रवय्ये च छन्दसि ( ६-३-८३ ) बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् | प्रवेयमित्यन्यत्र | छन्दसि किम् – भेयम् । प्रवेयम् । ॐ ह्रदय्या उपसंख्यानम् । हृद्रे भवा हृदय्या आपः । भवे छन्दसि यत् । ३५१८ प्रकृत्यान्तः पादमव्यपरे । ( ६-१-१५) ऋक्पादमध्यस्थ एड् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् । सुजाते अश्वसूनृते । अन्तःपादं किम्-एतास' एतेऽर्चन्ति । अव्यपरे किम् - तेऽवदन् । ३५१६ श्रभ्यादवद्यादवक्रमुरवतायमवन्त्ववस्युषु च । ( ६-१-११६ ) एषु व्यपरेऽ
1
यानीत्यर्थः येः । यच्छब्दात्परस्य शेर्लोपे कृते प्रत्ययलक्षणेन 'त्यदादीनामः' इति श्रत्वे 'नपुंसकस्य झलचः' इति नम् । 'सर्वनामस्थाने च' इति दीर्घः । नलोपः । ताता इति । तानि तानीत्यर्थः पूर्ववत् । भय्यप्रवय्ये । बिभेतेः प्रपूर्वस्य वी इत्येतस्य च यति प्रत्यये परतश्छन्दसि विषये यादेशो निपात्यते । भय्य इति । 'कृत्यल्युटः -' इति अपादाने यत् । हृदय्या इति । श्रकारस्यायादेशः । प्रकृत्या । पादस्य मध्ये इन्तःपादमित्यव्ययीभावः । अन्तरित्यव्ययमधिकरणशक्तिप्रधानं मध्यमाचष्टे । पादश्चेह ऋक्पाद एव गृह्यते न श्लोकस्य । 'वा छन्दसि' इत्यतो मण्डूकप्लुत्या छन्दसीति वर्तते । तेनास्य वैदिकत्वं संपद्यत इत्याशयेनाह ऋक्पादमध्यस्थ इति । 'एङ: पदान्तात् -' इति सूत्रादेङः इति पञ्चम्यन्तमनुवृत्तं प्रथमया विपरिणम्यतेऽ • न्यस्य कार्यिणोऽसंभवादित्यभिप्रेत्याह एङ् प्रकृत्येति । सन्धिरूपं विकारं न यातीत्यर्थः । उपप्रयन्तो अध्वरमिति । 'एड: पदान्तादति' इति प्राप्तम् । अन्तःपादं किमिति । ऋचीत्येव किं नोक्तमित्यर्थः । एतेऽचन्तीति । 'कया मती कुल एतास एतेऽर्चन्ति शष्णां वृषणो वसूया' इति । अत्र एते इति पादस्यान्ते एङस्ति अकश्च परस्य त्यादाविति तन्निमित्तिनिमित्तयोः पादमध्यस्थत्वमिति सत्यपि ऋक्त्वे प्रकृतिभावः । श्रव्यात् । एषामनुकरणत्वात्सुबन्तेन समास: । अव रक्षणे । श्राशीर्लिङ् । अवद्यादिति पञ्चम्येकवचनान्तम् । श्रवक्रमुरिवेत्यवपूर्वस्य क्रमेर्लिय्यसि द्विर्वचनप्रकरणे 'छन्दसि वा वचनम्' इति द्विर्वचनाभावे रूपम् । केचित्तु श्रवचक्रमुरिति
नुमि 'सर्वनामस्थाने चे 'ति दीर्घे नलोपः । त्वा-एमनिति त्वा-श्रद्मनिति च विग्रहः । हृदय्या इति । अकारस्यायादेशः । प्रकृत्याऽन्तः । श्रतीति वर्त्तते । प्रकृत्या स्वभावेन । न विकारमापद्यते इति यावत् । श्रव्याद | अयमिति । इदमःसौ ।