SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४१४] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया खिद दैन्ये । अस्यैच श्राद्वा स्यात् । चिखाद । चिखरेत्यर्थः । ३५१४ शीर्ष छन्दसि । (६-१-६०) शिरःशब्दस्य शीर्षन् स्यात् । शीर्णः शर्णो जगतः । ३५१५ वा छन्दसि । (६-१-१०६) दीर्घाजसि इछ च पूर्वसवर्णदी| वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः। उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वस्वं वा स्यात् । शमीं च शम्यं च । साम्य सुषिरामिव । 'संप्रसारणाच' (३३.) इति पूर्वरूपमपि वा। इज्यमानः । यज्यमानः । ३५१६ शेश्छन्दसि बहुलम् । (६-१-७० ) लोपः स्यात् । या ते गात्राणाम् । ताता पिण्डानाम् । एमन्नादिषु छन्दसि पररूपं इत्यतो विभाषेति च । तदाह आद्वा स्यादिति । चिखादेति । व्यत्ययेन परस्मैपदम् । शीर्ण इति 'अल्लोपोऽनः' इत्यल्लोपः । 'रषाभ्याम्-' इति णत्वम् । 'पूर्वस्मादपि विधौ स्थानिवद्भावः' इति पक्षे तु 'अकुप्वाङ्-' इत्यनेन । वा छन्दसि । 'नादिचि' 'दीर्घाज्जसि च' इति वर्तते । तदाह दीर्घादित्यादि । वाराही इति । वराहस्य विकार इति 'अवयवे च प्राण्योषधिक्षेभ्यः' इति प्राणिरजतादिभ्योऽञ् डीप् । द्विवचने पूर्वसवर्णदीर्घः । पूर्वसवर्णाभावे यणादेशः । मानुषीरिति । प्रथमाबहुवचनम् । मनोर्जातावच्यतो षुक् च' इति अञ् भनोः षुगागमः । सूत्रद्वये इति । 'अमि पूर्वः' 'संप्रसारणाच' इत्यत्र । वाक्यभेदे. नेति । अकः अमि पूर्वरू वा स्याच्छन्दसि, तथा 'संप्रसारणाच' इति पूर्वरूपं वा स्याच्छन्दसि । तदाह तेनेति । शम्यं चेति । विकल्पविधानसामर्थ्यात्पूर्वरूपत्वाभावे पूर्वसवर्णदीर्घोऽपि न भवति । तयोरत्र विशेषाभावादिति यणादेश एव भवति । यज्यमान इति । यजेलटः शानच् । 'सार्वधातुके-' इति यक् 'आने मुक्' इति मुक । 'अहिज्या-' इति संप्रसारणं पूर्ववैकल्पिकत्वादभावे यण। या ते इति । नत्वाऽभावश्च निपातनात् । चखादेति । व्यत्ययेन परस्मैपदम् , अात्वस्याऽनैमित्तिकत्वेन द्विवचनेऽचि' इत्यस्याऽभावादभ्यासेवर्णान्तता । चिखादेति । काचित्कोऽपपाठः । इदं पदमार्या स्पष्टम् । शीर्षन् । छन्दसि सर्वविधीनां वैकल्पिकत्वाच्छिरस्शब्दस्यापि वेदे प्रयोगः। वाराहीति । वराहस्य विकार इत्यजन्तान्डीप् । द्विवचने पूर्वसवर्णदीर्घः । उपानही विशेष्ये । मानुषीरिति । जसि पूर्वसवर्णदीर्घः । शम्यं चेति । पूर्वत्वाऽभावे विकल्पविधानसामर्थ्यात्पूर्वसवर्णदी? न, तयोरत्र विषये विशेषाऽभावात् । या ते इति । यानि ते इत्यर्थः । शेर्लोपे प्रत्ययलक्षणेन
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy