________________
षष्ठोऽध्यायः ] सुबोधिनी शेखरसहिता ।
ग्रहणानुवृत्तेनेह । श्रग्नि ज्योतिर्निचाय्यं । ३५१२ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताश्रितमाशीराशीतः (६-१-३६) एते छन्दसि निपात्यन्ते । इन्द्रश्च वि॑िष्णो यदप॑स्पृधेथाम् । स्पर्धेर्लङि श्राथाम् । अ॒र्कमा॑नृचुः । वसून्यानृहुः । श्रर्चेरश्च लिव्यसि चिच्युषे' । च्युङो लिटि थासि । यस्तित्यार्ज । त्यजेर्णलि । श्रतास्त॑ इन्द्र॒
♡
सोमा॑ः । श्रिता नो ग्रहा । श्रीज् पाके निष्ठायाम् । श्राशिरं ' दुद्दे । मध्य॒त शर्त: 1 श्रीज एव विपि निष्ठायां च । ३५१३ खिदेश्छन्दसि । ( ६-१-५२ )
4
[ ४१३
स्पर्धेर्लड्याथामिति । द्विर्वचनं रेफस्य संप्रसारणमकारलोपश्च निपातनात् । स्पर्धेथामिति भाषायाम् । अपरे तु अपपूर्वस्य स्पर्धेर्लेड्याथामि संप्रसारगमलोपश्च निपातनात 'बहुलं छन्दस्यमाङ्योगेऽपि ' इत्यडागमाभावः । तन्मते प्रत्युदाहरणमास्यामिति भाषायाम् । अर्चेर हैश्चेति । संप्रसारणमलोपश्च निपातनात् । ततो द्विर्वचनमुरदत्वम् 'अत आदेः' इति दीर्घत्वम् । 'तस्मान्नुड् द्विहलः' इति नुडागमः । आनर्चुरानहुरिति भाषायाम् । च्युङो लिटीति । अभ्यासस्य संप्रसारण-निट्त्वं च निपातनात् । चुच्युविषे इति भाषायाम् । त्यजेलीति । व्यज वयोहानौ । श्रभ्यासस्य संप्रसारणं निपात्यते । तत्याजेति भाषायाम् । श्राता इति । श्रीज् पाके इत्यस्य निष्ठायां श्राभावः । श्रिता इति । तस्यैव श्रीणातेर्हस्वत्वं च । श्राशिरमिति । पूर्वस्य श्रीणातेः क्विप् धातोः शिर् श्रादेशः । तस्माद् द्वितीयैकवचनम् । श्रशीर्त इति । श्रीञः श्राङ्पूर्वस्य शिर् इत्यादेशः । निष्ठायाश्च नत्वाभावो निपातनात् । 'हलि च' इति दीर्घः । खिदेश्छन्दसि । 'आदेच उपदेशे --' इत्यत आदिति एच् इति च वर्तते, 'विभाषा लीयतेः'
1
की । चायतेश्छन्दसि बहुलं कीत्यादेशः । स्पर्द्धर्लङीति । अपपूर्वस्य स्पद्धेः संप्रसारणमकारलोपः 'बहुलं छन्दस्ये' त्यडभावः । द्वे पदे, - अपेति, स्पृधेथामिति प्रकारान्तरं-मनोरमायाम् । लिट्यसीति । 'संप्रसारणाऽकारलोपौ निपात्येते ' इति शेषः । श्रानर्चुरानर्धुरिति भाषायाम् । थासीति । अभ्यासस्य सम्प्रसारणमनिट्त्वञ्च निपातनात् । थासः से, षत्वम् । चुच्युविषे इति भाषायाम् । गलीति | अभ्यासस्य संप्रसारणं निपातनात् । तत्याजेति भाषायाम् । निष्ठायामिति । श्रद्ये श्राभावो - ऽन्त्ये हखो निपातनात । बहुषु सोमेषु श्राभावोऽन्यत्र ह्रस्व एव । सोमादन्यत्र क्वचि देकस्मिन्नपि श्राभावः-‘यदि श्रातो जुहोतने' त्यादौ । श्राता इति बहुत्वमविवक्षितम् । सोमे तु बहुत्व एवेति भाष्ये स्पष्टम् । निष्ठायाञ्चेति । शिरादेशो निष्ठाया