________________
सिद्धान्तकौमुदी ।
षष्ठोऽध्यायः ।
'एकाचो द्वे प्रथमस्य ' (२१७५) छन्दसि वेति वक्तव्यम् । यो जागारं । दाति' प्रियाणि । ३५०६ तुजादीनां दीर्घो ऽभ्यासस्य । (६-१-७)
४१२ ]
[ वैदिकीप्रक्रिया
1
-
1
तुजादिराकृतिगणः । प्रभरा तूतुजानः | सूर्ये मामहानम् । दाधार यः पृथि॒वीम् । सत्ता । ३५१० बहुलं छन्दसि । ( ६-१-३४) ह्नः संप्रसारणं स्यात् । इन्द्रमाहु॑वे ऊतये । * ऋचित्रेरुत्तरपदादिलोपश्च छन्दसि । ऋच्शब्दे परे त्रेः संप्रसारणमुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम्त्र्यृचानि । * रयेर्मतौ बहुलम् । रेवान् । रयिमान्पुष्टिवर्धनः । ३५११ चायः की । (६-१-३५) न्य,म्यं चिक्युर्न निर्चिक्युरम्यम् । लिटि उसि रूपम् । बहुल
जागारेति । जागृ निद्राक्षये । लिटि प्रथमपुरुषैकवचनम् । दातीति । डुदाञ् दाने लट् । शपः श्लुः । 'लौ' इति नित्यं द्वित्वे प्राप्ते विकल्पः । तूतुजान इति । तुजेर्लिट् तस्य कानजादेशः । मामहानमिति । मह पूजायां कानच् । तूतावेति । तुः सौत्रो धातुः तस्माल्लिट् । बहुलं छन्दसि । 'ह्वः सप्रसारणम्' इति वर्तते तदाह ह्वः संप्रसारणं स्यादिति । हुवे इति । श्राङ्पूर्वाद् हेमो लडात्मनेपदोत्तमैकवचनम् । 'बहुलं छन्दसि' इति शपो लुकि कृते संप्रसारणमुवढादेशश्च । तृचं सूक्तमिति । तिस्रः ऋचो यस्मिंस्तत् तृचम् । 'ऋक्पूरब्धूः पथामानक्षे' इति समासान्तः अः । रयेर्मतौ । रयिशब्दस्य मतौ परतः संप्रसारणं स्याच्छन्दसि । रेवानिति । 'छन्दसीर:' इति वत्वम् । रयिमानिति । बहुलग्रहणात्संप्रसारणवत्वयोरभावः । चायः की । चायतेर्बहुलं कीत्ययमादेशः स्याच्छ• न्दसि । चिक्युरिति । 'कुछोश्चुः' इति चुः । निचाय्येति । चायृ पूजानिशामनयोः अस्मात्क्त्वा । गतिसमासे 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' इति ल्यबादेशः ।
अथ षष्ठः । छन्दसि वेतीति । 'लिटि धातो:' इति सूत्रे भाष्ये स्पष्टमेतत् । 'तुजादीनामित्यत्रापि छन्दसीति वक्तव्य' मिति भाष्यम् । तुजादीनाम् । छन्दसि सर्वविधीनां वैकल्पिकत्वात्-ममहान इत्यपि । माहुव इति । श्राङ्पूर्वात् ह्वयतेर्लटि श्रात्मनेपदोत्तमैकवचने 'बहुलं छन्दसि' इति शपो लुकि संप्रसारणे उवङ् । न च भवति—ह्वयामि मरुतः शिवानिति । रेवानिति । रयेर्यस्य संप्रसारणे इकारेण पूर्वरूपे श्राद्गुणे 'छन्दसीरः' इति वत्वम्, तत्र विहितविशेषणाश्रयणात् । चायः