________________
पञ्चमोऽध्यायः] सुबोधिनी शेखरसहिता।
[ ४११ (५-३-१११) हवार्थे । तं प्रवथा पूर्वथा विश्वथेमथो । ३५०३ अमु च छन्द सि । (५-४-१२) किमेत्तिङव्ययघादित्येव । प्रतं नय प्रतरम् । ३५०४ वृकज्येष्ठाभ्यां तिस्तातिलौ च छन्दसि । (५-४-४१) स्वार्थे । यो नो दुरेवो वृकतिः । ज्येष्ठताति बर्हिषदम् । ३५०५ अनसन्तान्नपुंसकाच्छन्दसि । (५-४-१०३) तत्पुरुषाच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसा. नि । ३५०६ बहुप्रजाश्छन्दसि च । (५-४-१२३) बहुप्रजा नियंतिमा. विवेश । ३५०७ छन्दसि च । (५-४-१४२) दन्तस्य दतृशब्दः स्याबहुव्रीहौ। उभयतोदतः प्रतिगृह्णाति । ३५०८ ऋतश्छन्दसि । (५-४-१५८) ऋदन्ता. बहुव्रीहेर्न कप । हता माता यस्य हतमाता । इति पञ्चमोऽध्यायः।
विश्व इम एभ्यस्थाल स्यात् । अमु च । किमत्तिव्ययघाद् द्रव्यप्रकर्षे वर्तमानादमुप्रत्ययो भवति । प्रतरमिति । प्रकर्षार्थात् प्रकर्षे तरप् । प्रकृष्टतर इतिवत् तद. न्तादमुः । स्वरादिषु अम् श्राम् इति पठ्यते तेन तदन्तस्याव्ययत्वे सुपो लुक् । अत्रेदित्करणम् 'इच एकाचोऽम्प्रत्ययवञ्च, इत्यत्रास्य ग्रहणं माभूत् । यदि स्यात्तर्हि अत्रापि यदृष्टं कार्य तदप्यतिदिश्येत । तत्र को दोषः । इह स्त्रियंमन्यमानः। यस्येति लोपः प्राप्नोति । अनसन्तात् । अनन्तस्योदाहरणमाह । ब्रह्मसाममिति। असन्तस्याह । देवच्छन्दसानीति । बहुप्रजाः। बहुप्रजा इति निपात्यते छन्दसि । बहुप्रजा इति । बह्वयः प्रजा यस्येति बहुव्रीहिः, असिच् प्रत्ययः । 'यस्येति च' इत्यकारलोपः । 'अत्वसन्तस्य' इति दीर्घः । रुत्वविसर्गौ। छन्दसि च । 'वयसि दन्तस्य दतृ' इत्यतो 'दन्तस्य दतृ' इत्यनुवर्तते । तदाह । दन्तस्य दत स्यादिति । उभयतोदत इति । उभयतो दन्ता यस्येति विग्रहः । हत. माता इति । 'नतश्च' इति नियं कप् प्राप्तः । इति सुबोधिन्यां पञ्चमोऽध्यायः ।
[विश्वेमात्थाल] । इमशब्द इदमासमानार्थः प्रकृत्यन्तरम् । प्रतरमिति । प्रकर्षप्रकर्षे तरप , प्रकृष्टतर इत्यर्थः । उदित्त्वम् 'इच एकाचोऽम्प्रत्ययव'दित्यत्रास्य ग्रहणं माभूदिति । तेन 'स्त्रियंमन्यः' इत्यादौ 'यस्येति लोपो न। स्वार्थ इति । प्राशस्त्यविशिष्टे स्वार्थे इत्यर्थः । 'सस्नो प्रशंसाया' मित्यतस्तदनुवृत्तेः । अनस । ब्रह्मणः साम, देवस्य छन्दौसीति विप्रहः। बहुप्रजा इति। बहुव्रीहिः । इति पञ्चमः ।