________________
४१० ] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया ३४६६ तयोर्दाहिलौ च छन्दसि। (५-३-२०) इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् । तर्हि । ३५०० था हेतौ च छन्दसि । (५-३-२६) किमस्था स्थाद्धेतौ प्रकारे च । कथा प्रामं न पृच्छसि । कथा दाशेम । ३५०१ पश्च पश्चा च छन्दसि । (५-३-३३) प्रवरस्य प्रस्तात्यर्थे निपाती। पश्च हि सः। नो ते पश्चा। 'तुश्छन्दसि (२००७) तृजन्तात्तचन्ताच्च इष्टबीयसुनौ स्तः । श्रासुति करिष्ठः । दोहीयसी धेनुः । ३५०२ प्रत्नपूर्वविश्वेमात्थाल्छन्दसि ।
मघवच्छदः । तयोः। तच्छब्देन 'इदमोहिल् । तदो दा च' इति संनिहितावि. दन्तदौ परामृश्येते । तदाह इदन्तदोरिति । सूत्रे व्यत्ययेन पञ्चम्याः स्थाने षष्ठी । यथासंख्यं स्त इति । इदंशब्दाद्दा तच्छब्दाद् हिल । इदा । इदम्शब्दाद्दा 'इदम इश्' इत्यनेनेशादेशः । था हेतौ। 'प्रकारवचने थाल्' इत्यतः प्रकारवचन इति किमश्चेति तदाह किमस्था स्यादित्यादि । कथा ग्रामं न पृच्छसीति । केन हेतुना पृच्छसीत्यर्थः । तस्य 'प्राग्दिशो विभक्तिः' इत्यधिकाराद्विभक्तिसंज्ञायां 'किमः कः' इति कादेशः । प्रकारवचने उदाहरणमाह कथा दाशेमेति । केन प्रकारेणेत्यर्थः । पश्चपश्चा। अवरस्य पश्चभावः अकाराकारौ च प्रत्ययौ निपात्येते । अस्तात्यर्थे इंति। दिक्शन्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः। करिष्ठ इति । कर्तृशब्दादिष्ठन् । 'तुरिष्ठमेयः' इति तृलोपः । दोहीयसीति । अतिशयेन दोग्ध्रीत्यर्थः । लिङ्गविशिष्टपरिभाषया दोग्ध्रीशब्दात्प्रत्ययः । 'भस्याढे-' इति पुंवद्भावेन डीपो निवृत्तिः । ततः 'तुरिष्ठेमेयःसु' इति तृचि निवृत्ते निमित्ताभावाद्धत्वकुत्वयोरपि निवृत्तिः । प्रत्नपूर्व । प्रत्न पूर्व
सत्वात्कर्मधारयादप्यत्र मत्वर्थीयः)। मघ=धनमस्यास्ति-मघवा । उद्गतसम्बन्धिनीत्यर्थे उद्वा उद्वतीति वमतुपोरदाहरणे । तयोरिति व्याचष्टे । इदन्तदोरिति । आनन्तर्ययोगे षष्ठी । कथेति । कुतो हेतोः; केन प्रकारेण वेत्यर्थः । तुश्छन्दसि । 'अजादी गुणवचनादेवेति नियमबाधेन प्रकृत्यन्तराभ्यनुज्ञामात्रमत्र क्रियते, न त्वपूर्वो विधिः । तेनोपराधिसङ्करो न। करिष्ठ इति । कर्तृशब्दात्तृन्नन्तादिष्ठनि कर्मणि द्वितीया । अतिशयरूपेष्ठनर्थस्य विशेषणत्वात्तृन्नन्तस्य शक्तेश्च न ‘कृतपूर्वी' कटतुल्यता । तेन तद्वदत्र तृजन्तप्रकृतिकत्वेऽपि न षष्ठीति परास्तम् । दोग्ध्रीशब्दे 'सिद्धश्च प्रत्ययविधौ' इति वचनाद् 'भस्याऽढे' इति पुंवत्त्वेन दोग्धृशब्दात्प्रत्यये 'तुरिछमेयस्सु' इति तृलोपः । ततः प्राग्घत्वजश्त्वे तु न, असिद्धत्वात् । प्रत्नपूर्व