________________
पञ्चमोऽध्यायः]
सुबोधिनी-शेखरसहिता
[४०६
(५-१-११८) धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवर्तः । उद्गतानिर्गतादित्यर्थः । ३४६७ थट् च छन्दसि । (५-२-५०) नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम्। 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (१८८६) । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् । मात्वा परिपरिणौ विदन् । ३४६८ बहुलं छन्दसि । (५-२-१२२) मत्वर्थे विनिः स्यात् । *छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम् । इति दीर्घः। मंहिष्ठमुभयाविनम्।शुनमष्ट्राव्यचरत् । छन्दसीवनिपौ च वक्तव्यो। ई। रथोरभूत्। सुमङ्गलीरियं वधूः। मघवानमीमहे। साधनस्य तस्मिन् वर्तमानादित्यर्थस्तदाह धात्वर्थविशिष्ट इति। उपसर्गाश्च पुनरेवमात्मकाः यदु ते श्रुतायां क्रियायां तामेव विशिषन्ति । यथा आगच्छति । यत्र तु न श्रूयते तत्र क्रियाविशिष्टसाधनमाहुः । निष्कौशाम्बिः। तथा च यत्र क्रियापदं श्रूयते तत्रैव यथा स्यादित्येवमर्थ धात्वर्थ इत्युक्तम् । थट च । 'तस्य पूरणे' इत्यतः डडिति 'नान्तादसंख्यादेः-' इति च । तदाह नान्तादित्यादि । पञ्चथमिति । पञ्चानां पूरणमित्यस्मिन्नर्थे डटि कृते तस्य थडागमः । छन्दसि । परिपन्थिन् परिपरिन् एतौ निपात्येते छन्दसि पर्यवस्थातरि वाच्ये । पर्यवस्थाता प्रतिपक्षः सपत्न इत्युच्यते । निपातनं चात्र पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य पन्थि परि एतावादेशौ च निपात्येते। बहुलम् । 'अस्मायामेधास्रजो विनिः' इति वर्तते । तदाह विनिः स्यादिति । अष्ट्रावीति । अशेः ष्ट्रन् अष्ट्रा । दंष्ट्रापर्यायो. ऽयम् । मेखलावी द्वयावी उभयावी । रुजावी हृदयावी । अत्र द्वयोभयहृदयान्येव दीर्घत्वं प्रयोजयन्ति । अन्येषां स्वत एव दीर्घत्वात् । छन्दसि । ईश्च वनिप् च ईवनिपौ । ई इति । ईप्रत्ययोदाहरणमुच्यते । रथीरिति । रथोऽस्यास्तीति रथी। सुमङ्गलीरिति । सुष्ठु मङ्गलमिति 'सुः पूजायाम्' इति समासः । ततोऽनेन मत्वर्थीय ईकार प्रत्ययः । मघवानिति । मघं धनं तदस्यास्तीति वनिपि, मतुपि तु
इद्वत्सरेदावत्सरसंवत्सरपरिवत्सराः पञ्चवर्षे युगचतुर्णा वर्षाणां सज्ञाः । उद्वत इत्यादि। देशा विशेष्याः । साधनशब्देन शक्तिमद्व्यमिति लिङ्गसङ्खथायोगादन्वर्थाऽव्ययसञ्ज्ञा न । थट् च । चात्पक्षे मट् । थुक्तु अत्र न कृतः, नलोपाऽनापत्तेः । दीर्घश्चेति । द्वयोभयहृदयविषयमिदम् । छन्दसीव । चाद्वः । अन्यतरस्याङ्ग्रहणानुवृत्तेमतुप् च । रथोऽस्या अस्ति, सुमङ्गलमस्या अस्त्रीत्यर्थः। (छान्द