________________
४०८] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया परिमाणमित्यर्थे वाच्यः । पञ्चदशिनोऽर्धमासाः। त्रिशिनो मासाः । विंशतेश्चेति वाच्यम् । विशिनोऽसिरसः । युष्मदस्मदोः सादृश्ये मतुब्वाच्यः । स्वावतः पुरूवसो । न स्वावाँ अन्यः । यज्ञं विप्रस्य मावतः। ३४६२ छन्दसि च । (५-१-६७) प्रातिपदिकमात्रात्तदहतीति यत् । सादन्यं विदथ्यम् । ३४६३ वत्सरान्ताच्छश्छन्दसि । (५-१-६१) निर्वृत्तादिष्वर्थेषु । इदस्सरीयः । ३४६४ संपरिपूर्वात्ख च। (५-१-६२) चाच्छः। संवत्सरीणः। संवत्सरीयः। परिवत्सरीणः । परिवत्सरीयः । ३४६५ छन्दसि घस् । (५-१-१०६) ऋतुशब्दात्तस्य प्राप्तमित्यर्थे । भाग ऋत्वियः । ३४६६ उपसर्गाच्छन्दसि धात्वर्थे । दनि 'नस्तद्धिते' इति ढिलोपे तद्धितान्तत्वात्प्रातिपदिकसंज्ञायां जस् । 'जश्शसोः शिः' । 'नपुंसकस्य-' इति नुम् । उपधादीघः। शनशतोः । डिकरणं शदन्तस्य टिलोपार्थम् । पंचदशिन इति । पञ्चदशाहानि परिमाणमेषामिति डिनिः टिलोपः । एतेन त्रिंशिनो व्याख्याताः। विशिनोऽङ्गिरस इति । विंशतिर्गोत्राणि परिमाणमेषामिति विग्रहे डिनि कृते 'तिविंशतेडिति' इति तिशब्दलोपे कृते यस्येति लोपः । आङ्गिरसाऽयास्य गार्यगौतम इत्यादिप्रवरभेदभिन्नानि विंशतिरवान्तरगोत्राणि परिमाणमेषामित्यर्थः । त्वावत इति । त्वमिव त्वावान् तस्य त्वावतः । अहमिवेति मावान् तस्य मावतः । 'प्रत्ययोत्तरपदयोश्च' इति त्वमादेशौ । 'पा सर्वनाम्नः' इत्यात्वम् । सादन्यमिति । सदनं गृहमहतीति सादन्यः । 'अन्येषामपि-' इति दीर्घः । विदथ्यमिति। विदथो यज्ञस्तमहतीत्यर्थः । इद्वत्सरीय इति । इद्वत्सरेण निर्वृत्तः इद्वत्सरमधीष्टो भृतो भूतो नावी वा इद्वत्सरीयः । इद्वत्सरेदावत्सरशब्दो पञ्चवर्षे युगे द्वयोवषयोः संज्ञे। एवं संवत्सरपरिवत्सरशब्दावपि । संपरि. पूर्वात् । संपरिपूर्वाद्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये निवृत्तादिष्वर्थेषु खः स्याचाच्छः । छन्दसि घस् । 'समयस्तदस्य प्राप्तम्' इत्यतस्तदस्य प्राप्तमिति 'ऋतोरण' इत्यतः ऋतोरिति चानुवर्तते । तदाह ऋतुशब्दादित्यादि । ऋत्विय इति। 'सिति च' इति पदत्वेन भत्वे निरस्ते 'ओर्गुणः' इति गुणभावे यण । उपसर्गात् । इह धातुशब्देन धातुवाच्या क्रिया लक्ष्यते । साऽर्थः प्रयोजनं यस्य
अथ पञ्चमः । साप्तानीति । आर्ष क्लीबत्वम् । वर्गः प्राण्यप्राणिविषयः । विशिन इति । आङ्गिरस-अयास्य-गार्य-गौतमेत्यादिप्रवरभेदभिन्नानि विंशतिस्वान्तरगोत्राणि परिमाणमेषामित्यर्थः । सादन्यमिति । सदनमहतीत्यर्थः ।