SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः ] सुबोधिनी - शेखरसहिता । [ ४०७. 1 यज्ञाहं इत्यर्थः । ३४८४ मये च । ( ४-४- १३८) सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु॑ । सोममयमित्यर्थः । ३४८५ मधोः । (४ - ४ - १३६) मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमय इत्यर्थः । ३४८६ वसोः समूहे च । (४-४-१४०) चान्मयडर्थे यत् । वसन्यः । अक्षरसमूहे छन्दस उपसंख्यानम् । छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः । श्राश्रावयेति चतुरतरमस्तु श्रौषडिति चतुरतरम् यजेति व्यत्तरम्, ये यजामह इति पञ्चात्तरं, व्यक्षशे वषट्कार एष वै सप्तदश। चरश्छन्दस्यः । ३४८७ नक्षत्राद्धः । (४-४- १४१) स्वार्थे । नचत्रियेभ्यः स्वाहा॑ । ३४८८ सर्वदेवात्तातिल् । ( ४-४- १४२ ) स्वार्थे । स॒वि॒ता नः॑ सु॒वतु॑ स॒र्वता॑तिम् । प्रक्षिणिद्दे॒वता॑तिमु॒राणः । ३४८६ शिवशमरिष्टस्य करे । (४-४-१४३) करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददाशुषे । अथो अरिष्टातये । ३४६० भावे च । (४-४-१४४) शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । श्ररिष्टतातिः । इति चतुर्थोऽध्यायः । पञ्चमोऽध्यायः । ३३६१ सप्तनोऽञ्छन्दसि । ( ५-१-६१ ) तदस्य परिमाणम्' (१७२३) इति वर्ग इति च । सप्त साप्तानि सृजत् । शन्शतोर्डिनिश्छन्दसि तदस्य सोममर्हतीति सोम्यः । मये च । आगतविकारावयवप्रकृता मयडर्थाः । तत्रागते पञ्चमी समर्थविभक्तिः, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा । मधोः । यत्स्यादिति । वृत्तिकारस्तु यतमेवानुवर्तयति न तु यम् । नक्षत्रात् । स्वार्थ इति । समूह इति नानुवर्तते । तेनाऽनिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इत्यर्थः । सर्वदेवात् । सर्वशब्दाद्दवशब्दाच्च तातिल् स्यात् । शिवशम | करशब्दसामानाधिकरण्यात् 'शिवशमरिष्टस्य -' इति 'उभयप्राप्तौ कर्मणि' इति षष्ठी । इति वैदिकसुबोधिन्यां चतुर्थोऽध्यायः " सप्तनोऽञ् सप्तन्शब्दादञ् स्याच्छन्दसि । साप्तानीति । सप्तन् शब्दा द्वितीयान्तादईतीत्यर्थे यप्रत्ययः । मधोः । 'य' इति निवृत्तम् । चान्मयडर्थे इति । स्वार्थे इत्यपि बोध्यम् । श्रग्निरीशेव सव्यस्येत्यादिः । स्वार्थे इति । समूह इति निवृत्तम् । शिवशम | पचाद्यजिति । एवञ्च कृद्योगलक्षणा षष्ठी समर्थ - विभक्तिः । फलितमाह । शिवं करोतीति । अरिष्टाः । प्रकृतयः । इति चतुर्थः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy