SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ ] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया वस्तीति नभस्यो मासः। ओजस्या तनूः । ३४७५ मधोत्रं च । (४-४-१२६) माधवः । मधव्यः । ३४७६ ओजसोऽहनि यत्खौ। (४-४-१३०) श्रोजस्यमहः । प्रोजसीनं वा। ३४७७ वेशोयशादेर्भगाद्यल। (४-४-१३१) यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः। यशोभगीनः । ३४७८ ख च । (४-४-१३२) योगविभाग उत्तरार्थः क्रमनिरासार्थश्च । ३४७६ पूर्वैः कृतमिनयौ च । (४-४-१३३) गम्भीरेभिः पथिभिः पूर्विणेभिः । ये ते पन्थाः सवितः पूर्व्यासः । ३४८० अद्भिः संस्कृतम् । (४-४-१३४) यस्येदमध्ये हेविः । ३४८१ सहस्रेण समिती घः । (४-४-१३५) सहस्त्रियांसो अपां नोर्मयः । सहस्रेण तुल्या इत्यर्थः । ३४८२ मतौ च । (४-४-१३६) सहस्त्रशब्दान्मत्वर्थे घः स्यात् । सहनमस्यास्त्रीति सहस्त्रियः । ३४८३ सोममर्हति यः। (४-४-१३७) सोम्यो ब्राह्मणः। पूर्वनिपातप्रसङ्गात् । प्रोजस्या इति । ओजो यस्या यस्यां वा अस्तीयोजस्या । मघो। मधुशब्दान्मत्वर्थ ञः स्याच्चाद्यत् । मधव्या इति । ओर्गुणः । 'वान्तो यि-' इति अवादेशः । ओजसोऽहनि । भोजःशब्दान्मत्वर्थे यत्खौ स्तोऽहन्यभिधेये । ननु यद्ग्रहणं व्यर्थ खश्चेत्येवास्त्विति चेन्मैवम् । खश्चेत्युच्यमानेऽनन्तरसूत्रविहितस्य मात्रस्य समुच्चयो विज्ञायेत तस्माद्यद्ग्रहणम् । वेशोयश । वेशश्च यशश्च वेशोयशसी ते आदौ यस्य तस्माद्वेशोयशादेभंगात्प्रातिपदिकाद्यल्खौ स्तो मत्वथें । लकारः स्वरार्थः । पूर्विणेभिरिति । पूर्वैः कृताः पूर्विणाः तैः । एवं प्रासः पूर्विणाः । अद्धिः। तृतीयान्तादपशब्दात्संस्कृतमित्यर्थे यत्स्यात् । सहस्रेण । तृतीयान्तात्सहस्रशब्दात्संमितमित्येतस्मिन्नथें घः स्यात् । संमितः सदृशस्तुल्य इत्यर्थः । सहस्त्रिया इति । सहस्रेण संमिताः सहस्रियाः। 'यस्येति च' इत्यकारलोपः। समिताविति पाठान्तरम् । मतौ । 'तपःसहस्राभ्यां विनीनी' इत्यस्यापवादः । सोममर्हति । द्वितीयान्तात्सोमशब्दादहतीत्यस्मिन्नर्थे यत्स्यात् । सोम्य इति । मार्षम् । अकार:-इषः, ऊर्जः । इट् अन्नम् , ऊ बलम् , तद्वानित्यर्थः । इकार:पातपाधिक्येन देहशोषरूपा शुगस्मिन्नस्ति शुचिः । रेफो रशब्द.-शुकः । अयस्मयादित्वाज्जश्त्वं न । ओजसोऽह । ओजःशब्दान्मत्वर्थे यत्खौ स्तोऽहनि वाच्ये । वेशोय। एतदादिकाद्भगशब्दाद्यल्खौ। 'भगः श्रीकाममाहात्म्यवीर्ययत्ना. ककीर्तिषु । पूर्वैः कृत। पूर्वशब्दात्ततीयाबहुवचनान्तात कृतमित्यर्थे इन इति, य इति च प्रत्ययः । अद्भिः। संस्कृतमित्यर्थे यदित्यर्थः। सोममर्ह । सोमशब्दा
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy