SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः] सुबोधिनी-शेखरसीहता [ ४०५ आश्विनीरुपदधाति । ३४७३ वयस्यासु मूर्भो मतुप । (४-४-१२७) तद्वानासामिति सूत्रं सर्वमनुवर्तते । मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतु. बन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोलुंक्च वयःशब्दवन्मन्त्रोपधेयास्विष्टकासु । यस्मिन्मन्त्रे मूर्धवयःशब्दो स्तस्तनोपधेयासु । मूर्धन्वतीरुपदधातीति प्रयोगः । ३४७४ मत्वर्थे मासतन्वोः । (४-४-१२८) नभोऽभ्रम् । तदस्मित्ययविधानात्तस्येव लुक् भविष्यति । अश्विमान् । अश्विशब्दो यस्मिन्मन्त्रेऽस्ति सोऽश्विमान्मन्त्रः स च ध्रुवक्षितिरित्यादिकः । प्रथमान्तादश्विमच्छब्दादासामिति षष्ट्यर्थे अण स्यात् यत्प्रथमानिर्दिष्टमुपधानो मन्त्रश्चेत्स भवति । यत्तदासामिति निर्दिष्टमिष्ट काश्वेत्ता भवन्ति मतोश्च लुक् । अश्विनीरुपदधातीति । अश्वशब्दाद् ‘अत इनिठनौ' इत्यस्त्यर्थे इनिः। तदन्तान्मतुप् । अश्विमान्स उपधानो मन्त्र प्रासामिष्टकानामिति विगृह्याणि विहिते मतोश्च लुकि कृते 'इनण्यनपत्ये' इति प्रकृतिभावः । वयस्यासु । वयस्वानुपधानो मन्त्र प्रासामिष्टकानां ता वयस्यास्तास्वभिधेयासु प्रथमासमर्थान्मतुबन्तमूर्धशब्दादासामिति षष्ठयर्थे मतुप्स्यात् । यत्प्रथमानिर्दिष्टमुपधानो मन्त्रश्चेत्स भवति, यदासामिति निर्दिष्टभिष्ट काश्चेत्ता भवन्ति । यस्मिन्मन्त्रे मूर्धशब्दो वयःशब्दश्च विद्यते स मूर्धवान् वयस्वान् , यथा मूर्धा वयः प्रजापतिश्छन्द इति, तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि पूर्वेण यति प्राप्ते मतुविधीयतेत्याशयेनाह । यस्मिन्मन्त्रे इति। मूर्धन्वतीरिति । 'अनो नुट् इति नुडागमः। मूर्धवत इति वक्तव्ये भाविनं मतुब्लुकं चेतसि कृत्वा मूर्ध इत्यक्तम् । मत्वर्थे । यस्मिन्नर्थे मतुविहितस्तस्मिन्नर्थे प्रथमान्ताद्यत्स्याद् मासतन्वोरभिधेययोः । ननु प्रथमासमर्थमिति कस्मादागतमिति चेन्मत्वर्थग्रहणादित्यवेहि । 'कृषिचमितनिधनिसार्जिखर्जिभ्य ऊः' इति ऊकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः । न तु 'भृमशीनुचरित्सरित्तनिधनिमिमस्जिभ्य । इत्युकारान्तः.। 'द्वन्द्वे घि' इति मूर्धन्वतीरिति । यद्यपि । 'मूर्दा वयः प्रजापतिश्छन्द' इत्यन्त्यमन्त्र एव मूर्दशब्दोऽस्ति तथाऽपि तत्साहचर्याच्छत्रिन्यायेन 'विष्टम्भो वय' इत्यादयश्चत्वारोऽपि मन्त्रा 'मूर्धन्वन्त' उच्चन्ते । वयस्यास्विति । किम् ? । अग्ने यशस्विन् यशसे समर्पयाऽयं मूर्धा परमेष्ठी'ति केवलमूर्धशब्दवता वयःशब्दरहितेन मन्त्रेणोपधेयासु माभूदिति । मत्वर्थे । मा। मत्वर्थे यत् स्याच्छन्दसि मासतन्वोर्वाच्ययोः । मास. तन्वोः किम् ?। स्वध्वरासो मधुमन्तोऽग्नयः । सूत्रे 'तनू' शब्दो दीर्घान्त इति हरदत्तः । 'अनन्तरार्थे वेति वक्तव्यम्' । मध्वनन्तरमस्मिन्-मधव्यो माधवो मासः। 'लुगकारेकाररेफाश्चेति वक्तव्यम्' । लुक्-मधुः, तपः, नभः । अन्त्ययोः क्लीवत्व
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy