________________
४०४ ]
सिद्धान्तकौमुदी |
[ वैदिकीप्रक्रिया
असुरस्य स्वम् । (४-४-१२३) श्रसुर्यं देवेभिर्धायि विश्वम् । ३४७० मा यायामण् । (४-४-१२४ ) आसुरी माया । ३४७१ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः । (४ -४ -१२५) वर्चस्वानुपधानो मन्त्र श्रासामिष्टकानां वर्त्तस्याः । ऋतव्याः । ३४७२ आश्विमानण् । (४-४ -१२६) शतृवद्भावात् 'उगितश्च' इति ङीप् । हविषे हिता हविष्या । उगवादित्वाद्यत् । तासां प्रशंसनं हविष्यं, ‘यस्य' इति लोपे कृते 'इलो यमो यमि' इति यलोपः । श्रसुरस्य स्वम् । असुरशब्दात्षष्ठीसमर्थात्स्वमित्येतस्मिन्नर्थे यत्स्यात् । श्रसुर्यमिति । न सुरोऽसुरः । सुरप्रतिपक्षी । अथ वा असेरुरच् । अस्थति अस्यते वा असुरः । तस्य स्वमसुर्यम् । मायायामण् । मीयतेऽनयेति माया सदर्थ प्रकाशनशक्तिः । माङः औणादिको यः । तस्यां वाच्यायामसुरशब्दादण् स्यात्पूर्वसूत्रापवादः । श्रासुरीति । 'टिड्ढाणञ्-' इति ङीष् । तद्वानासा । मत्वन्तात्प्रथमासमर्थादासामिति षष्ठ्यर्थे यत्स्यात् यत्प्रथमासमर्थमुपधानो मन्त्रश्चेत्स नवति, यत्तदासामिति निर्दिष्टमिष्टकाञ्चित्ता भवन्ति, मतोश्च लुक् । वर्चस्वानिति । वर्चः शब्दो यस्मिन्मन्त्रेऽस्ति वर्चस्वान् । कुम्भेष्ट कोपधानमन्त्रः 'भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे' इत्यादिकः । उपधीयतेऽनेनेत्युपधानम् । चयनं रचनमित्यर्थः । ऋतव्या इति । ऋतुशब्दो यस्मि - मन्त्रेऽस्ति स ऋतुमान् स च मधुश्च माधवश्चेत्यादिकः । ऋतुमानुपधानो मन्त्र श्रासामिष्टकानामृतव्याः । तद्वानिति किम् । मन्त्रादेव समुदायान्माभूदिति काशिका | अत्र हरदत्तः । ननु तद्वानित्यस्मिन्नसति 'समर्थानां प्रथमाद्वा' इति वचनादासामिति प्रथमानिर्दिष्टत्वात्षष्ठयन्तादिष्टकाभिधायिनः उपधानमन्त्रे प्रत्ययः स्यादिति वाक्यार्थः स्यात् । तथा च समुदायान्न प्राप्नोतीति चेत्सत्यम् । श्रासामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने, ततश्चोपधानो मन्त्र आसामिष्टकामु लुक् च मतोरिति योगः करिष्यते । तथा च तद्वानित्यस्याभावे 'भूतं च स्थ भव्यं च स्थ' इत्ययमुपधानो मन्त्र आसामिष्टकानामिति वाक्यं स्यात् । तथा चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोतीति भावः । उपधान इति किम् । वर्चस्वदभिमन्त्रणमासामित्यत्र माभूत् । 'शिवेन मा चक्षुषा' इत्यनुवाकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः । मन्त्र इति किम् । अङ्गुलिमानुपधानो हस्त श्रासामित्यत्र माभूत् । इष्टकास्विति किम् । वर्चस्वानुपधान श्रासां शर्कराणामित्यत्र माभूत् । इति करणं नियमार्थम् । अनेकपदसम्भवे केनचिदेव पदेन तद्वान्मन्त्रो गृह्यते न सर्वेण । मतुब्ग्रहणमुत्तरार्थम् । अश्विमानित्यत्र मतुप एव लुक् यथा स्यात् इर्भाभूत् । इह तु मत्वन्तात्प्रमायाया । असदर्थं प्रकाशनशक्तिः:- माया । असुरस्य- सुरप्रतिपक्षस्य, माया श्रासुरी ।
1