________________
चतुर्थोऽध्यायः ] सुबोधिनी शेखरसहिता। [४०३ चाद्यत् । अग्रे भवोऽध्यः । अप्रियः । अग्रीयः । ३४६४ समुद्राभ्राद्धः। (४४-११८) समुद्रिया अप्सरसो मनीषिणम् । नानदतो अभियस्येव घोषाः । ३४६५ बर्हिषि दत्तम् । (४-४-११६) 'प्राग्घितायत्' (१६२६) इत्येव । बर्हिष्येषु निधि प्रियेषु। ३४६६ दूतस्य भागकर्मणी। (४-४-१२०) भागों ऽशः । दूत्यम् । ३४६७ रक्षोयातूनां हननी। (४-४-१२१) या ते अमे रक्षस्य तनूः । ३४६८ रेवतीजगतीहविष्याभ्यः प्रशस्ये । (४-४-१२२) प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगस्यम् । हविष्यम् । ३४६६ इति विग्रहः । यतोऽपवाद इति । 'भवे छन्दसि' इति प्राप्तस्य । अप्राद्यत् । 'भवे छन्दसि' इत्येव सिद्ध घादिभिर्बाधा माभूदिति यद्विधीयते । समुद्रा। समुन्दतीति समुदः। 'स्फायितचि' इति रक् । अपो बिभर्ति इत्यभ्रम् । मूलविभुजादित्वात्कः । 'अभ्रसमुदा'दिति वक्तव्ये समद्राभ्रादित्युक्तिः पूर्वनिपातस्यानित्यत्वज्ञापनार्था । बर्हिषि । तत्र भव इति निवृत्तम्। बर्हिःशब्दाद्दत्तमित्यर्थे यत्प्रत्ययो भवति। बहिष्यति । 'बृंहतेनेलोपश्च' इतीस्प्रत्ययान्तो बर्हिस्तस्माद्यत् । दूतस्य । दूतशब्दात्षष्ठीसमर्थाद्भागे कर्मणि चाभिधेये यत्प्रत्ययः स्यात् । भागे 'तस्येदम्' इत्यणि प्राप्ते वचनम् । कर्मणि तु 'दूतवणिग्भ्यां च' इत्यौपसंख्यानिके ये दूत्यमित्यादि । दूतस्य भागो दूत्यः' कर्म दूत्यम् । रक्षोयातूनाम् । षष्ठीबहुवचनान्ताभ्यां रक्षस्यातुशब्दाभ्यां हननीत्यस्मिन्नर्थे यत्स्यात् । रक्षेरसुनि रक्षः 'कमितनिमनि' इत्यादिना यातेस्तुन् । यातुशब्दो रक्षःशब्दपर्यायः । न च 'विरूपाणामपि समानार्थानाम्' इत्येकशेषः स्यादिति वाच्यम् । बह्वर्थाभिधायिस्वरूपवचनेन सूत्रस्य भिन्नार्थत्वात् । रक्षस्येति । हन्यतेऽनया सा हननी रक्षसाम् । एवं यातव्या। बहुवचनं स्तुतिवैशिष्टयज्ञापनाय । बहूनां रक्षसां हनने हि स्तुतिः प्रतीयते । रेवतीजगती । प्रशंसनं प्रशस्यम् । प्रपूच्छिंसु स्तुतावित्यस्माद्भावे क्यप् । तदाह प्रशंसने इति । रयिरस्यास्तीति रेवती । रयिशब्दान्मतुप 'छन्दसीरः' इति वत्वम्, 'रमती बहुलम्' इति संप्रसा. रणम् । उगित्त्वान्डीप नक्षत्रे गौरादित्वान्ङीष् । जगच्छब्दात् 'वर्तमाने' इत्यनेन, रात् । बर्हिषि दत्तम् । भव इति निवृत्तम् । 'बर्हिः कुशहुताशयोः' । दूतस्य । कर्म-क्रिया । तत्र भागे 'तस्येद'मित्यणि, कर्मणि 'दूतपरिणग्भ्याञ्च' इति ये प्राप्ते वचनम् । रक्षोयातूनाम् ‘विरूपाणामपीत्येकशेषो न कृतोऽसन्देहाय । शैषिका:एछयोरपवादः । प्रशस्ये इति । बाहुलकाद्राव स्यप, तद्योगे कर्मणि षष्टी । तदाह रेवत्यादीनामिति । रयिरस्त्यस्या रेवती । 'रयर्मती बहुल'मिति संप्रसारणम् ।