________________
४०२] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया ३४५६ भवे छन्दसि । (४-४-११०) सप्तम्यन्ताद्भवार्थे यत् । मेध्याय च विद्युत्याय च । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पत्रे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवाबाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः । ३४५७ पाथोनदीनां डयण । (४-४-१११) तमुवा पाथ्यो वृषा । चनो दधीत नाद्यो गिरो मे । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः । ३४५८ वेशन्तहिमवद्यामण् । (४-४-११२) भवे । वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा । ३४५६ स्रोतसो विभाषा ड्यड्ड्यौ। (४-४-११३) पक्षे यत् । ड्यड्ड्ययोस्तु स्वरे भेदः । स्रोतसि भवः स्रोस्यः । स्रोतस्यः । ३४६० सगर्भसयूथसनुताद्यन् । (४-४-११४) अनुभ्राता सगर्व्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जिघरनुः । नुतिर्नुतम् । 'नपुंसके भावे ः' (३०६०) । सगर्भादयस्त्रयोऽपि कर्मधारयाः । 'समानस्य छन्दसि' (१०१२) इति सः । ततो भवार्थे यन् । यतोऽपवादः । ३४६१ तुग्रा. द्धन् । (४-४-११५) भवेऽर्थे। पक्षे यदपि । प्रा वः शमं वृषभं तु यासु । इति बह्वचाः । तुप्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुप्रशब्द इति वृत्तिः। ३४६२ अग्राद्यत् । (४-४-१९६) । ३४६३ घच्छौ च । (४-४-११७) सप्तम्यन्तात्सभाशब्दात् ढः साध्वर्थे । अणादीनां चेति । 'तत्र भवः' इति प्राप्तानाम् । पाथोनदीभ्याम् । सप्तम्यन्ताभ्यामाभ्यां भवार्थे डयण् स्यात् । पाथसीति । पाथो जलम् । 'कबन्धमुदकं पाथः' इत्यमरात् । 'पाथोऽन्तरिक्ष इति वृत्तिः। वैशन्तीभ्य इति । विशेझच् । वेशन्तः पल्वलम् । तत्र भवा अपाः वैशन्त्यः । सगर्भसयूथस । अतिगृभ्यां भन् । गिरति गीर्यते वा गर्भः। युता भवन्त्यस्मिन्निति यूथम् । 'तिथपृष्टयूथगूथप्रोथाः' इति थक्प्रत्ययान्तो निपातितः । दीर्घोऽपि निपातनादेव । कर्मधारया इति । समानश्वासौ गर्भश्च तत्र भवः सगी 'वधिका पश्यन्ति' इति भाष्ये प्रयोगात् । मेध्यायेति । 'यतोऽनावः' इत्यायुदात्तत्वं प्राप्नोति, अन्तस्वरितश्च पठयते इति हरदत्तः। वैशन्तीभ्य इति । वेशन्ते-पल्वले भवा श्राप इत्ययः । स्रोतो जलप्रवाहः। सगर्भस। यन्-नित् । यदपीति । छान्दसत्वात् । चाद्धनिति । यतः पूर्वेणैव सिद्ध व्यवहितस्याऽपि घनः समुच्चय इति भावः । लोके तु 'अग्रिमः' इत्येव । 'अप्रा' दित्येव सूत्रथितुमुचितं, यतोऽधिका