________________
चतुर्थोऽध्यायः ] सुबोधिनी शेखरसहिता। [४०१ मिति वक्तव्यम् । गुग्गुलूः । मधूः। जतूः । पतयालुः । 'लव्ययात्त्यप्' (१३२४)
आविष्टयस्योपसंख्यानं छन्दसि । श्राविष्ट्यो वर्धते. । ३४५० छन्दसि ठञ् । (४-३-१६) वर्षाभ्यष्ठकोऽपवादः । स्वरे भेदः । वार्षिकम् । ३४५१ वसन्ताच्च । (४-३-२०) ठञ् स्यात् छन्दसि । वासन्तिकम् । ३४५२ हे. मन्ताच्च । (४-३-२१) छन्दसि ठन् । हैमन्तिकम् । योगविभाग उत्तरार्थः । 'शौनकादिभ्यछन्दसि' (१४८६) णिनिः प्रोक्नेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ।' ३४५३ द्वयचश्छन्दसि । (४-३-१५०) विकारे मयट् स्यात् । शरमयं बर्हिः। यस्य पर्णमयी जुहः । ३४५४ नोत्वद्वर्धबिल्वात् । (४-३-१५१) उत्वान उकारवान् । मौझं शिक्यम् । वधं चर्म तस्य विकारो वार्धी रज्जुः । बैल्वो यूपः । 'सभाया यः' (१६५७) । ३४५५ ढश्छन्दसि । (४-४-१०६) सभेयो युवा। सि । गुग्गुलुमधु । एषां व्यत्ययेन छन्दसि स्त्रीत्वम् । पतयालुशब्दः 'स्मृहिगृहि' इत्यादिना पालुजन्तः। अव्यया । व्याख्यातमपि त्यबनुवृत्तिप्रदर्शनार्थ स्मारितम् । प्राविष्ट्यस्येति । 'अव्ययात्त्यप्' इत्यत्र 'अमेहक्वतसित्रभ्यः' इति नियमादप्राप्तः शेषिकस्त्यब् विधीयते । आविष्ट्य इति । आविर्भूतमाविष्टयम् । 'ह्रस्वात्तादी' इति षत्वं तकारस्य ष्टुत्वम् । ठकोऽपवाद इति । वर्षाभ्यष्ठक्' इति प्राप्तस्य । ननु उठनोः को विशेषस्तत्राह स्वरे भेद इति । उनि कृते नित्यादिनित्यम्' इत्याधुदात्तत्वं, ठकि तु सति 'कितः' इत्यनेनान्तोदात्तत्वं स्यादिति भावः । वार्षिकमिति । ठस्येकः । उत्तरार्थ इति । 'सर्वत्राण च तलोपश्च' इत्येतदर्थः । तत्र ह्यस्यैवानुवृत्तियथा स्यात् वसन्तस्य माभूत् । शौनक । 'काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' इति वर्तते । तदाह णिनिरिति । प्रोक्ने इति । 'तेन प्रोक्तम्' इत्येतस्मिन्नर्थे । शौनकीयेति । वृद्धाच्छः । द्वयचः। 'मयड्वतियोर्भाषायाम् ।' इत्युक्तेवेंदेऽप्राप्तौ विधीयते । नोत्वत् । उकारवतः प्रातिपदिकाद्वबिल्वशब्दाभ्यां च मयरन स्यात् । 'द्वयचश्छन्दसि' इति प्राप्तः प्रतिषिध्यते । मौअमिति । मुञ्जशब्दादौत्सर्गिकोऽण । वार्थीति । वर्धशब्दादौत्सर्गिकोऽण् । 'टिड्ढाणज्' इति डीप् । ढश्छन्दसि । सामर्थ्यानित्यत्वसिद्धेरिति भावः। उत्तरार्थ-भुवश्व' इत्यर्थम् । डुप्रत्ययान्तस्य भोरिति स्यादत आह । उवङिति । गुग्गुल्वादीनां छन्दास व्यत्ययेन स्त्रीत्वम् । पतयालुर्विशेष्यलिङ्गः । शौनकादिभ्यश्छन्दसि । अस्याऽत्र लेखो लेखकप्रमादात् । छन्दसि अभिधेये इति तदर्थात । अत एव 'शौनकीया शिक्षा' इति तत्प्रत्युदाहरणमाकरे । वर्धमिति । 'वधीति' तु वधेरौणादिके ष्ट्रनि बोध्यम् ।