________________
३६८]
सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया धाः । प्रसेन् । निस्वादायुदात्तः। स । प्रेषे । कसेन् । गामिव श्रियसै । अध्यै। अध्यैन् । जठरं पृणध्यै । पक्ष आद्युदात्तम् । कध्यै । कध्यैन् । पाहुवध्यै । पक्ष 'नित्स्वरः । शध्यै । राधसः सह मादयध्यै' । शध्यैन् । वायवे पिबध्यै। तवै। दातवाउँ । तवेङ् । सूतवे । तवेन् । कर्तवे । ३४३७ प्रयै रोहिष्यै अव्यथिष्यै । (३-४-१०) एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः । ३४३८ दृशे विख्ये च । (३-४-११) द्रष्टुं विख्यातुमित्यर्थः । ३४३६ शकि णमुल्कमुलौ । (३-४-१२) शक्नोतावुपपदे तुमथै एतौ स्तः । विभाज नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः । ३४४० ईश्वरे तोसुन्कसुनौ । (३-४-१३) ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः । ३४४१ कृत्यार्थे तवैकेन्केन्यत्वनः । (३-४-१४) न वक्षे इति । वचः से कुत्वे षत्वम् । कषसंयोगे क्षः । एषे इति । इणो गुणः । नकारो 'नित्यादिनित्यम्' इत्यायुदात्तार्थः । प्रेषे इति । इणः से कित्वाद्गुण श्राद्गणः । श्रियसे इति । इयङ् नित्त्वादायुदात्तः । इह मन्त्रे मध्योदात्तः पठ्यते । तत्र बाहुलकात्प्रत्ययस्वरो बोध्यः । आहुवध्यै इति । जुहोतेरुव । मादयध्यै इति । मदी हर्षे एयन्ताच्छध्यैप्रत्ययः । तस्य भाववाचिसार्वधातुत्वात्सार्वधातुके यकि प्राप्ते व्यत्ययेन शप् गुणायादेशौ । पिबध्यै इति । अत्रापि यक्प्रपङ्गे व्यत्ययेन शप् । 'पाघ्रा' इति पिबादेशः।दातवा उ इति । ददातस्तवै आयादेशे 'लोपः शाकल्यस्य' इति यलोपः । सूतवे इति । ङित्त्वान्न गुणः। कर्तव इति । कृो गुणः । कर्तुमित्यर्थः । प्रयै । प्रपूर्वायातः कैप्रत्ययः। रुहेरिष्ये । नब्यूर्वाव्यथेश्च । दृशे। योगविभागश्चिन्त्यप्रयोजनः। दृशः ख्यातेश्च केप्रत्ययः कित्त्वादृर्शन गुणः। ख्यातेरालोपश्च । विभाजमिति । विपूर्वाद्भजतेर्णमुल् । णित्वाद् 'अत उपधायः' इति वृद्धिः । अपलुपमिति । लुप्लु छेदने कित्त्वाद् गुणाभावः । ईश्वरे । ईश्वरशब्दे उपपदे धातोस्तोसुन्कसुनौ स्तश्छन्दसि । विचरितोरिति । चर गताविट् । विलिख इति । लिख विले. खने कित्त्वान्न गुणः। ‘क्त्वातो सुन्कसुनः' इत्यव्ययत्वाद् 'अव्ययादाप्सुपः' इति विभक्तेलुक् 'न लुमता-' इति निषेधाद् 'अत्वसन्तस्य' इति दीर्घो न कृत्यार्थे । ऋत्यानामर्थो भावकर्मणी तयोरेवेति कृत्यानां भावकमणोविंधानात तत्र एते प्रत्ययाः इत्येव सिद्धे तुमर्थग्रहणात्साध्यावस्थभावस्याऽत्र ग्रहणम् । पृणध्यै इति । बाहुलकादगुणत्वं 'पिबध्यै' इत्यादौ 'यगभाववत् । एवञ्च बाहुलकेनैव पिवाद्यादेशकित्त्वकार्ये स्वीकृत्य कध्यैकध्यैन्शध्येशध्यनिति प्रत्ययचतुष्टयं व्यर्थमिति सूचयति । आहु