________________
तृतीयोऽध्यायः ]
सुबोधिनी - शेखरसहिता ।
[ ३६५
* ग्रहोर्भश्छन्दसि इति हस्य भः । गृभाय जिह्वया मधु । बधाने देव सवितः । 'अनिदिताम्' (४१५) इति बनातेर्नलोपः । गृभ्णामि ते । मध्वा जभारे । ३४३३ व्यत्ययो बहुलम् । ( ३-१-८५ ) विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्णस्य भेदति । भिनत्तीति प्राप्ते । जरसा मरते पतिः । म्रियत इति प्राप्ते । इन्द्रो' वस्तेन नेषतु । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रे तरुषेम वृत्रम् । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः शप् सिप्
चेति त्रयो विकरणाः।
सुप्तिङपग्रहलिङ्गनराणां कालहलचस्वकर्तृयङां च ।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ १ ॥
जप्यादेशः स्याद्धौ परे । गृभायेति । ग्रह उपादाने । लोटः सेर्हिः 'क्र्यादिभ्यः ना' 'ग्रहिज्या' इति संप्रसारणम् । बधानेति । बन्ध बन्धने । 'तो है:' इति लुक् प्रसङ्गात् 'हृग्रहो श्छन्दसि' इत्यस्योदाहरणमाह – गृभ्णामि त इति । जभारेति । हृञ् हरणे । लिटो गलि वृद्धौ हस्य भः । गृह्णामि जहारेत्यर्थः । भेदतीति । भिदिर् विदारणे रौधादिकः, श्रमि प्राप्ते शप् । म्रियत इति । मृङ् प्राणत्यागे । “तुदादिभ्यः' इति शे कृते 'रिङ् शयग्लिङ्नु' इति रिङादेशः । इयङ् । नेषत्विति । नयत्वित्यर्थः । द्वौ विकरणाविति । तत्र शप् न्याय्यः, सिप्तु बाहुलकात् । एतेन ‘सेमामविड्ढि’ इत्यादि व्याख्यातम् । अव रक्षणे । अस्माल्लोटि शपि प्राप्ते बाहुलकात्सिप् । ‘हुझल्भ्यो हेर्धिः’। षत्वं ष्टुत्वम् । तरुषेमेति । तरुष मसिति जाते यासुद् 'लिङः सलोपो ऽनन्त्यस्य' । 'नित्यं ङितः ' । 'अतो येयः' । लौंपो व्योर्वलि' । 'आद्गुणः' । अत्रोप्रत्ययान्तस्य सिपं प्रत्यङ्गत्वात् ' सार्वधातुक' इति गुणः प्राप्तः । सिबन्तस्य शपि लघूपधगुणश्च प्राप्तो बाहुलकान्न भवति ।
सुप्तिङिति । शास्त्रकृत्पाणिनिराचार्य एषां सुप्प्रभृतीनां व्यत्ययमिच्छति । सोऽपि तथाविधो व्यत्ययो बाहुलकेन सिध्यति । बहुलस्य भावो बाहुलकम् । मनोज्ञादित्वाद् वुञ् । तत्पुनर्बहुलशब्दस्य प्रवृत्तिनिमित्तं बह्वर्थादानत्वं चशब्दों हेतौ । यस्मादेवमुक्तप्रकारो
देवेहाऽपि-योऽस्कभायदुत्तरम् । 'अस्कस्नादित्यर्थः । व्यत्ययः । व्यतिक्रम्य गमनम् । व्यतिपूर्वादिणो भावे णच् । तच्च क्वचिदन्यविषयावगाहनं, कचिद्दौ, कचि - त्त्रय इत्यादि । लिङिति । तस्य मस्, धातोर्गुणः । 'नित्यं ङितः' इति सलोपः । यासुट्, अतो येयः । यलोपः । श्राद्गुणः । विकरणप्रकरणे व्यत्यय इत्येव सिद्धे बहुलग्रहणं सर्वविधिव्यभिचारार्थं तदाह । सुप्तिङिति । बहूनर्थान् लाति—