________________
३६४]
सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया स उत्तमस्य । (३-४-९८) लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेवम् । ३४२६ आत ऐ। (३-४-६५ ) लेट नाकारस्य ऐ स्यात्। सुतेभिः सुप्रयसा मादयते । प्रातामिस्याकारस्य ऐकारः । विधिसामर्थ्यादाट ऐस्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यात इत् । ३४३० वैतोऽन्यत्र (३-४-६६) लेट एकारस्य ऐ स्थाद्वा 'पात ऐ' (३४२६ ) इत्यस्य विषय विना । पशूनामीशै । ग्रहा गृह्यान्त । अन्यत्र किम् । सुप्रयसा मादयै ते । ३४३१ उपसंवादाशङ्कयोश्च । (३-१-८) पणबन्धे आशङ्कायां च लेट स्यात् । अहमेव पशूनामीशै। नेजिह्मायन्स्यो नरकं पताम। 'हलः नः शानज्झौ' ( २५५७) । ३४३२ छन्दसि शायजपि । ३-१-८४) अपिशब्दाच्छानच् । तीति । पत्लु पतने तिप् । आडागमः । करवावेति। कृषो लेटो वस् 'तनादिकृभ्यः' इति उः । गुणः रपरः। 'लेटोऽडाटौ' इत्याह । तस्य पित्वेनाङित्त्वाद्विकर. णस्य गुणः । 'अत उत्सार्वधातुके' इत्युत्वाभावश्च । मदी हर्षे । णिच् तदन्ताल्लेट् । प्रातामि कृते पाह। टेरेत्वमिति । 'टित आत्मनेपदानाम्' इत्यनेन । प्राकारस्येति । प्रथमस्येत्यर्थः । द्वितीयस्य 'टित आत्मनेपदानाम्' इत्यनेनत्व. मेव नित्यत्वात् । न च शब्दान्तरप्राप्त्याऽनित्यत्वं कृताकृतप्रसङ्गित्वमात्रेण क्वचि. नित्यताश्रयंणात् । उत्तरसूत्रेऽन्यत्रेति लिशाच्च । श्राट ऐत्वं नेत्युक्तं, तस्य फलमाह । यजाति यजात इति । यज देवपूजादौ । लेट आडागमः । वैतो । अन्यत्र किमपेक्षयेत्याकाङ्क्षायां पूर्वसूत्रविषयादिति लभ्यते सन्निधानात् । तदाह । प्रात इत्यादि ईशै इति । ईश ऐश्वये । उत्तमैकवचनमिट । 'इतश्च' इति लोपो नास्ति परस्मैपदेषु इत्युक्तेः। टेरेत्वे तस्य ऐः । गृह्यान्ता इति । ग्रहः कर्मणि लेट् भिः। तस्याऽऽ डागमः। यक् 'प्रहिज्या' इति संप्रसारणम् , टेरेत्वम् , पूर्ववदैत्वम्। पणबन्ध इति । यदि मे भवानिदं कुर्यात्तींदमहं दास्यामीति समयकरणं पणबन्धः । आशङ्का संभावना । अहमेवेति । त्रिपुरविजये देवैः प्रार्थितस्य रुद्रस्येदं वचनम् । पशवः संसारिणः। नेदिति । इच्छब्द आशङ्कां द्योतयति। जिह्माऽऽचरणेन नरकपातः, स माभूदित्यर्थः। पतामेति । 'स उत्तमस्थे' ति सलोपः । छन्दसि शाय-1 छन्दसि नः शायपदतिकामिकारान्तानाभित्यर्थः । पतातीनि । 'पत्नु गतौ।' तिप् प्राट । जिह्मायन्त इति । 'छन्दसि परेच्छायाम्' इति क्यच् । 'अश्वा घस्यात्' इति योगविभागे. नात्वम् । अन्यस्य पापेच्छावन्त इति । इदमेव जिह्माचरणं नाम । अन्ये तूपमानादन्यत्रापि छान्दसत्वादाचारे क्यचमाहुः । अपिशब्दाच्छानजिति । अपिशब्दा