________________
तृतीयोऽध्यायः] सुबोधिनी शेखरसहिता। [३६३ धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् । ३४२३ छन्दसि लुङललिटः । (३-४-६) धास्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् । लोडर्थे लुङ् इदं तेभ्योकर नमः । लङ् अग्निमद्य होतारमवृणीतायं यजमानः । लिट् अद्या ममा । अद्य नेयत इत्यर्थः । ३४२४ लिङथे लेट् । (३-४-७) विध्यादौ हेतुहेतुम. दावादौ च धातोर्लेट् स्याच्छन्दसि । ३४२५ सिब्बहुलं लेटि । ( ३-४-३४) ३४२६ इतश्च लोपः परस्मैपदेषु । (३-४-६७) लेटस्तिकामितो लोपो वा स्यात्परस्मैपदेषु । ३४२७ लेटोऽडाटौ। (३-४-६४ ) लेटः अट् प्राट् एतावागमौ स्तस्तौ च पितौ। * सिब्बहुलं णिद्वक्तव्यः। वृद्धिः । प्रण प्राषि तारिषत् । सुपेशसस्करति जोषिषद्धि । प्रा साविषदर्शसानाय । सिप इलोपस्य चाभावे । पताति दिद्युत् । प्रियः सूर्य प्रियो अग्ना भवाति । ३४२८ प्रजनकान्त्यसनखादनेषु । राताविति । रा दाने। छन्दसि लुललिटः। उदाहरणेषु धातुसम्बन्धो मृग्यः। अगमदिति । गम्लु गतौ 'पुषादि-' इति लादेत्त्वादङ् । अकरमिति । 'कृमृदृरुहिभ्यश्छन्दसि' इति च्लेरङ् 'ऋशोऽडि-' इति गुणः । अवृणीतेति । वृञ् वरणे । लङ् । 'क्रयादिभ्यः श्ना' 'ई हल्यघोः' इतीत्वम् । इतश्च । 'लेटोऽडाटौ' इत्यतः लेट इति 'वैतोऽन्यत्र' इत्यतो वेति चानुवर्तते । तदाह । लेट इत्यादि । लेटो-। आगमौ स्त इति । तौ च पर्यायेण, न तु योगपद्येन अड्विधिसामर्थ्यात् । अन्यथा सवर्णदीर्घ कृते विशेषाभावाद् 'आडुत्तमस्य' इति सूत्रान्मण्डूकप्लुत्या पिञ्चेत्यनुवर्तते इत्याशयेनाह । तौ च पिताविति । तत्फलं तु 'विक्रन्दसी उर्वरासु बतैते' इत्यादिषु गुणः । वृद्धिरिति । 'अचोऽणिति' इत्यनेन । तारिषदिति। तृ प्लवनतरणयोः । तिप इकारलोपः । सिप इट् । जोषिषदिति । जुषी प्रीतिसेवनयोः। अनुदात्तेत् । व्यत्ययेन परस्मैपदम् । प्रासाविषदिति । आपूर्वात् षु प्रसवेश्वर्ययोरित्यस्माल्लेट् । पतालोडर्थ इति । पूर्वपरान्वयि । अकरमिति । 'कृमृहरुहिभ्यश्छन्दसि' इति च्लेर । 'ऋशोऽङि गुणः' उदाहरणेषु धातुसम्बन्धो मृग्यः । सिब्बहुलम् । श्रयं विकरणः । ‘यासिसीष्टाः' इत्यादौ सिपा व्यवधानादिग्निषेधो न, विहितविशेषणेऽपि छन्दसत्वान्न, तत एव च लसार्वधातुकानुदात्तत्वम् । 'वतोऽन्यत्र' इत्यतो वेति वर्तते, तदाह । लोपे वेति। परस्मैपदेष्विति । षष्ट्यर्थे सप्तमी । परस्मै