________________
३६२ ] सिद्धान्तकोमुदी। । वादकीप्रक्रिया एयन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः । 'भुवश्च' (३११८)। अस्मात् केवलाप्राग्वत् । भविष्णुः । * छन्दसि परेच्छायां क्यच उपसंख्यानम् । 'क्याच्छन्दसि (३१५०)। उप्रत्ययः स्यात् । भघायुः । * एरजधिकारे जवसवौ छन्दसि वाच्यौ। जवे याभियूनः । ऊर्बोर्ने जवः । देवस्य सवितः सवे। ३४२० मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः। ( ३-३-६६) वृषादिभ्यः क्विन्स्यारस चोदात्तः । वृष्टिं दिवः । सुम्नमिष्टये पचात्पनीरुत । इयं ते नव्य॑सी मतिः। वित्तिः। भूतिः । अग्न भा याहि वीतये । रातो स्यामोभयांसः । ३४२१ छन्दसि गत्यर्थेभ्यः। ( ३-३-१२६) ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः । सूपसदनोऽग्निः । ३४२२ अन्येभ्योऽपि दृश्यते । (३-३-१३० ) गत्यर्थेभ्यो येऽन्ये दयितुमाह । छन्दसीति । 'सुप आत्मनः-' इत्यत्र आत्मन इति विशेषणात्परेच्छायां न प्राप्नोतीति वचनम् । क्याच्छन्दसि । 'सनाशंसभिक्ष उः' इत्यत उरिति वर्तते । क्यान्ताद्धातोः स्याच्छन्दसि । अघायुरिति । परस्याघमिच्छतीत्यर्थे क्यच 'अश्वाघस्यात्' इति वक्ष्यमाणेनाकारादेशः। तदन्तादुप्रत्ययः । जवसवाविति । जु इति सौत्रो धातुः षूङ प्राणिगर्भविमोचने । षु प्रसवैश्वर्ययोरिति । आभ्याम् 'ऋदोरप्' इति अपि प्राप्तेऽज्विधीयते । स्वरे भेदः । मन्त्रे वृषेष । 'स्त्रियां क्विन्' इत्यतः विन्निति वर्तते । वीरा इति । पञ्चम्यर्थे प्रथमा। तदाह । वृषादिभ्य इति । वृष्टिमिति । वृषु सेचने । इष्टये इति । इषु इच्छायाम् । चतुर्येकवचनम् । मतिरिति । मन ज्ञाने किन् । 'अनुदात्तोपदेश-' इत्यनुनासिकलोपः। वित्तिरिति। विद सत्तायाम् । कित्त्वान्न लघूपधगुणः। वीतये इति । वी गतिव्याप्ति'तितिरायाः' 'तितीर्वा' नित्यादी प्रवृत्तिवारणाय । 'ईजानः' इत्यादौ लिटः कित्त्वादेव सम्प्रसारणं सिद्धम् । अञ्जेः 'आजिवान्' इत्यादौ नलोपोऽपि 'छन्दस्युभयथा' इत्यनेन सार्वधात कत्वान्ङित्त्वादेव सिद्धः । न चैवमारिवानित्यत्रापि गुणो न स्यात् , ऋकारान्तरप्रश्लेषेण ऋधातौ पुनर्विधानादिति । प्राञ्चः। क्याच्छन्दसि । 'कियो य' इति व्याख्यानात्कण्डादियगन्तादपि । 'यमस्य योनी शकुनं भुरण्यु'मिति यथा । लोके
नस्यवः' इति तु लोहितादिसूत्रभाष्यरीत्या साधु । मन्त्रे वृषेष । सत्रे पञ्चम्यर्थे प्रथमा । 'वृषु सेचने.' 'इष इच्छायाम् , 'मन ज्ञाने' 'मनु बोधने' इत्युभयोर्ग्रहणम् । दिदादीनामपि यथादर्शनम् । तो विधातव्ये उदात्तवचनमुत्तरार्थम्-वजयजो वे क्यबुदात्तो यथा स्यादिति, प्रमतो 'तादौ च निति' इति पूर्वपदप्रकृतिस्वरार्थञ्च ।