SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः ] सुबोधिनी-शेखरसहिता। [३६१ पुरोडाश्च । (८-२-६७ ) एते संबुद्धौ कृतदीर्घा निपात्यन्ते। चादुक्थशाः । ३४१७ विजुपे छन्दसि। (३-२-७३) उपे उपपदे यजेविच । उपयट् । ३४१८ बातो मनिन्वनिब्वनिपश्च । (३-२-७४) सुप्युपसर्गे चोपपदे प्रादन्तेभ्यो धातुभ्य छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा | भूरिदावा । घृतपावा | विच् । कीलालपाः । 'ब्रह्मभ्रूणवृत्रेषु क्किप्' ( २६६८ ) । ३४१६ बहुलं छन्दसि । (३-२-८८) उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा। छन्दसि लिट (३०६३)। भूतसामान्ये । अहं द्यावापृथिवी पा तान । 'लिटः कानज्वा' (३०६४ ) । 'कसुश्च' (३०६५ )। छन्दसि लिटः कान कसू वा स्तः । 'वाणा वृष्णि । यो नो अग्ने अररिवाँ अघायुः । 'णेश्छन्दसि' (३११७ )। सौ 'अत्वसन्तस्य' इति दीर्घ रुत्वे च श्वेतवा इत्यादि सिद्ध नार्थोऽनेन योगेनेत्याशङ्कयाह । एते संबुद्धाविति । संबुद्धौ हि 'अत्वसन्तस्य' इति न प्राप्नोति, तत्रासंबुद्धावित्यनुवर्तनात् । विजुपे । ननु छन्दसीति व्यर्थ मन्त्रे इत्यनुवृत्तेरेव भाषायां न भविष्यतीति चेत्, सत्यम् । ब्राह्मणसंग्रहार्थ छन्दोग्रहणम् । मन्त्रव्यतिरिक्तो वेदभागो ब्राह्मणम् । तदुक्तम्-'तचोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्दः । सुधीवा सुपीवेति । 'घुमास्था' इतीत्वम् । कीलालपा इति। कीलालं जलम् । 'पयः कीलालममृतं जीवनं भुवनं वनम् इत्यमरः । तत् पिबतीति । पा पाने विच । उपपदान्तरेऽपीति । ब्रह्मभ्रण त्रभिन्नेष्वपीत्यर्थः । प्राततानेति । 'णलुत्तमो वा' इति णित्त्वपक्षे वृद्धिः । अररिवाँ इति । रा दाने । लिटः कसुः । 'वस्वकाजाद्धसाम' इत्यादन्तत्वादिद। ततो नसमासः। 'दीर्घादटि-' इति वक्ष्यमाणेन नस्य रुत्वम् 'ातोऽटि नित्यम्' इति रोः पूर्वस्यातो नित्यमनुनासिकः । प्रसादघायुशब्दं व्युत्पासप्तम्या अलुक् । अवे यज इति । योगविभाग उत्तरार्थः । विजुपे । 'मन्त्रे' त्यनुवर्तमाने छन्दोग्रहणं स्पष्टार्थम् । 'छन्दोब्राह्मणानि' इति सूत्रबलेन ब्राह्मणे मुख्यछन्दस्त्वस्याऽनङ्गीकारात् । 'सुधीव'। इत्यादौ 'घुमास्थ' इतीत्त्वं । वनिपि तु केत्त्वाऽभावानेत्वम् । उपपदान्तरे इति। 'ब्रह्मभ्रणेति' नियमादप्राप्तः विप् प्रति सूयत इति भावः । बहुलग्रहणात्कचिन्न - पितृघातः । छन्दसि लिट् । 'छन्दसि तुङ्लङ्लिटः' इति तु धातुसम्बन्धाधिकारस्थम् । 'क्वसुश्च'इति योगविभागः उत्तरार्थः । अनन्तरस्यैव लिटोऽयमादेशः । लिट इति तु प्रत्ययान्तरत्वाऽभावाय । अनयोः कित्त्वन्तु 'ऋच्छत्यतामिति प्रतिषेधविषयगुणस्य 'तेरतु' रित्यादाविव
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy