________________
तृतीयोऽध्यायः] सुबोधिनी-शेखरसहिता [ ३८६ प्रतिषीग्यः । ब्रह्मणि वदेण्य॑त् । ब्रह्मवाद्यम् । लोके तु 'वदः सुषि क्यप् च ' (२८५४) इति क्यबण्यतो । भवतेः स्तोतेश्च ण्यत् । भाव्यः । स्ताग्यः । उपपूर्वाच्चिनोतेय॑द् अायादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् । हिरण्य इति वक्तव्यम् । उपचेयपडमन्यत् । मृड सुखने मृड चेत्यस्मादिगुपधलक्षणः कः । ३४०८ छन्दसि वनसनरक्षिमथाम् । (३-२-२७) एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनि स्वा क्षत्रवनिम् । उत नो गोषणि धियम् । ये पां पथिरक्षयः । चतुरक्षौ पथिरक्षी । हविर्मथीनामभि । ३४०६ छन्दसि सहः । (३-२-६३ ) सुप्युपपदे सहेरिवः स्यात् । पृतनापाट् । ३४१० वहश्च । (३-२-६४ ) प्राग्वत् । दित्यवाट् । योगविभाग उत्तरार्थः । ३४११ काव्यपुरीषपुरीष्येषु ज्युट । (३-२-६५ ) एषु वहेन्युट् स्थाच्छन्दसि । काव्यवाहनः । पुरीतवाहनः । पुरीष्यवाहनः । ३४१२ हव्येऽनन्तःपादम् । संप्रसारणम् । प्रतिषीव्येति । षिवु तन्तुसन्ताने । 'हलि च' इति दीर्घः । उपचाय्यपडमिति । उपचाय्यं च तत्पृडं चेति कर्मधारयः। हिरण्य इति । हिरण्येऽभिधेये इत्यर्थः । छन्दसि । एभ्य इति । वन षण संभक्ताविति भ्वादिगणेन सह निर्दिष्टयोरेव प्रहणं न तु वनु याचने, षणु दाने इति तानादिकयोः सानुवन्धकत्वात् । ब्रह्मवनिमिति । ब्रह्म वनति, क्षत्रं वनति सनीति विवक्षायामिन् तदन्ताद्वितीयकवचनम् । सुषामादित्वात्षत्वम् । पथिरक्षय इति । पन्यानं रक्षयन्तीति विग्रहः । पथिरक्षीति । पन्थानं रक्षतीति विग्रहः । हविर्मन्यतौति विग्रहः । छन्दसि । षह मर्षणे 'भजो शिवः' इति वर्तते । तदाह । शिवः स्यादिति । ननु 'तुरासाहं पुरोधाय' इति लोके प्रयोगा दृश्यन्ते तेषां का गतिरिति चेत् . णिचन्ताद्विच् बोध्यः । पृतनाषाडिति । 'सहे. साडः 'प्रच्छ जीप्साया'मित्यतः । सीव्यतेरिति । 'प्रतिपूर्वा'दित्यादिः । ब्रह्मणीति । उपपदे इत्यर्थः । लोके त्विति । 'ब्रह्मोद्यं वदन्ती त्यादौ व्यत्ययेन क्यब्बोध्यः । गोषणिमिति । गां सनतीति विग्रहः । अत्र 'सनोतेरनः' इति नकारान्तस्य निषेधात गोसनिशब्दस्य सवनादिषु पाठः करिष्यते' इति 'सनोतेरनः' इतिसूत्रस्थ. भाष्याच यद्यप्यत्र षत्वं न प्राप्नोति:तथापि दन्त्यस्यैव मून्यवत्पाठो वैदिकसंप्रदायात् । अत एव पदकाले दन्त्यमेव पठन्ति-गो-सनिमिति । यत्तु सुषामादित्वात्षत्वमिति, तन्न । उक्तसूत्रतद्भाष्यविरोधात् । ये पथामिति । पन्थानं रक्षन्ति, हविर्मन्थन्तीति विग्रहः । छन्दसि सहः । लोके 'तुरासाह'मित्यादिप्रयोगश्चिन्त्या इति हरदत्तः ।