________________
तृतीयोऽध्यायः ] सुबोधिनी-शेखरसहिता [ ३८७ विभाषानुवृत्तेर्नेह । न ता अगृभ्णन जनिष्ट हि षः । इति द्वितीयोऽध्यायः।
तृतीयोऽध्यायः। ३४०३ अभ्युत्सादयां प्रजनयां चिकयां रमयामकः पावयांक्रियाद्विदामक्रनिति च्छन्दसि । (३-१-४२) पायेषु चतुर्यु लुङि भाम् अक इत्यनुप्रयोगश्च । अभ्युत्सादयामकः । अभ्युदसीषददिति जोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामकः । अवैषीदित्यर्थे चिनोतेराम् द्विवचनं कुत्वं च । रमयामकः । परीरमत् । पावर्याक्रियात् । पाग्यदिति लोके । विदामक्रन् । प्रवेदिषुः । ३४०४ गुपेश्छन्दसि । (३-१-५०) ब्लेश्वङ् वा । गृहानगुपतं युवम् । अगौप्तमित्यर्थः । ३४०५ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः।
अभ्युत्सादयाम् । अभ्युत्सादयामित्यादयश्छन्दसि विषयेऽन्यतरस्या निपात्यन्ते । षद्ल विशरणगत्यवसादनेषु । जनी प्रादुर्भावे । रमु क्रीडायाम् । ण्यन्तेभ्य एभ्यो लुङि अाम्प्रत्ययो निपात्यते । चिञ् चयने । शुद्धादस्मादाम्प्रत्यये द्विवचनं कुत्वं च । अक इति प्रत्येकं सम्बध्यते । तदाह-आयेष्विति । अक इति । कृमओ लुडि तिपि च्लेः 'मन्त्रे घस' इत्यादिना लुक् । तिपो हल्ल्यादिलोपः । अभ्युत्सादया. मक इति। 'श्राम' इति लुडो लुक् । अभ्युदसीषददिति । सदेय॑न्ताल्लुडि चङि 'णौ चङ् युपधायाः' इति ह्रस्वः। 'चङि इति द्विवचनम् । हलादिःशेषः । 'सन्वल्लघुनि' इति सन्वगावे 'सन्यतः' इतीत्वम् । लघोर्दीर्घः । लोक इति । वेदेऽपि पाक्षिकमिदं बोध्यम् । 'विदाकुर्वन्तु' इति सूत्रादन्यतरस्यांग्रहणानुवृत्तः । पावयामिति । पवतेः पुनातेर्वा एयन्तादाशीलिङयाम् । क्रियादित्यनुप्रयोगश्च । क्रियादिति । करोतेराशीलिङि रूपम् । 'लिडाशिषि' इत्यार्धधातुकत्वाद्विकरणाभावः । 'रिल् शयग्' इति रिङ् । विदामक्रन्निति। विदे कि भाम् , गुणाभावः लुङन्तकरोत्यनुप्रयोगश्च । गुपेः । आयप्रत्ययाभावस्थल एवेदं, सूत्रे केवलस्योचारणात् । अजूगुपतमिति । गुपू रक्षणे । 'तस्थस्थमिपाम' इति थसस्तम् । 'तुजादीनां दीर्घोऽभ्यासस्य' इत्यभ्यासस्य दीर्घः । अगौप्तमिति। ऊर्दित्त्वादिडभावे 'वदवज' इति वृद्धिः । 'झलो झलि' इति सिचो लोपः। इट्पक्षे अगोपिष्टम् । अायप्रत्यये अगोपायिष्टम् । इत्थं चत्वारि च्छन्दसि । लोके तु चढं वर्जयित्वा त्रीण्येवेति विवेकः । नान्यतीति । ऊन परिहाणे। ध्वन शब्दे । इल प्रेरणे ।
अकरिति ओ लुङि तिपि 'मन्त्रे घसेति च्ले कि सार्वधातुकगुणे तिपो हल्ड्यादिलोपे रूपम् । अजूगुपतमिति । गुपेर्लुङ् । यसस्तम् । तुजादित्वादभ्यासस्य