________________
३८६ ] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया शवृदहाद्वच्कृगमिजनिभ्यो लेः । (२-४-८०) एभ्यो ले क् स्यान्मन्त्रे । अक्षमीमदन्त हि । घस्नादेशस्य 'गमहन' (२३६३) इत्युपधालोपे 'शासिवसि' (२४१०) इति षः । मामित्रस्य । धूर्तिः प्रणङ्मास्यस्य । 'नशेर्वा (४३१) इति कुत्वम् । सुरुवो वेन भावः । मा न माधक । आदित्याकारान्तग्रहणम् । मा प्रा द्यावापृथिवी । परावग्भारभृयथा। अन्नुषासः । स्वे रयिं जागृवांसो अनुग्मन् । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । घस अत्तरादेशः । हर । ह कौटिल्ये। अस्य कृतगुणानुकरणं हरेति । अकारस्तुच्चारणार्थः । णश अदर्शने । वृञ् वरणे । वृ संभक्तौ । दह भस्मीकरणे। श्रात् । श्राकारान्ताःप्रा पूरणे इत्यादयः । वृजी वर्जने। डुकृञ् करणे । गम्लु गतौ। जनी प्रादुर्भावे । अक्षन्निति । अत्ते कि मिः । घस्लादेशस्येति । 'लुङ्सनो:-' इति विहितस्य । मारिति । माठि उपपदे हरते डिः तिप् । 'इतश्च' इतीकारलोपः । च्लेलुकि कृते 'सार्वधातुके-' इति गुणे कृते रपरत्वे 'हल्याप्-' इति लोपः । प्रणगिति । प्रपून्निशेर्लुङ । 'हल्याप्-' इति लोपः 'उपसर्गादसमासेऽपि-' इति णत्वम् । मर्त्यस्येति। मकारेऽनुनासिके परे 'यरोऽनुनासिके-' इति छः । कुत्वमिति । पक्षे 'वश्च-' इति षत्वेन नडिति रूपं बोध्यम् । आव इति । वृजो रूपम्।
आधगिति । माङ्पद्दिहेलुङ । 'दादेर्धातोः-' इति घः । 'एकाचो बश-' इति भष्भावः । प्राप्रा इति । प्रापर्वात्प्राधातोः सिप । रुत्वे यत्वे च यलोपः । परावर्गिति । परापूर्वाञ्जस्तिप् । उपधागुणे 'चोः कु: इति कुत्वम् । अक्रनिति । झेङित्त्वाद् गुणा भावे यण । अनुग्मनिति। अनुपूर्वाद्च्छतेमिः । 'गमहन-' इत्युपधालोपः । ननु मन्त्रशब्दः संहितायां रूढ इति अज्ञतेत्यादौ ब्राह्मणप्रयोगे लुङ् न प्राप्नोतीत्याशङ्कयाह । मन्त्रग्रहणमित्यादि । अज्ञ. तेति । 'गमहन-' इत्युपधालोपः ब्राह्मणप्रयोगोऽयम् । मन्त्रेति किम् ? अघसत् । अह्वार्षीत् । अनशत् । अवारीत् । अधाक्षोत् । अप्रासीः। अवर्जीत् । अकार्षीत् । अगमत् । अजनि । अजनिष्ट । इति वैदिकीप्रकरणे द्वितीयोऽध्यायः। इति पुंस्त्वं प्राप्तम् । द्वित्वमतन्त्रम् । 'अहोरात्राणि विदधत्' । घस्लादेशस्येति । 'लुड्सनो रिति विहितस्य । 'कृ' इति,-वृङ्घयोः सामान्येन प्रहणम् । आप्रेति । 'प्रा' पुरणे, आपूर्वः, मध्यमपुरुषेकवचनम् । परावर्गिति । परापूर्वस्य वृजेः। अक्रनिति । कृषः । अनुग्मन्निति-गमेः। 'गमहने'त्युपधालोपः । 'अज्ञतवे'त्यस्येतरेयब्राह्मणे सत्त्वादाह-मन्त्रग्रहणमिति । इति द्वितीयः।