SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः ] सुबोधिनी शेखरसहिता । [३८५ ३३६६ हेमन्तशिशिरावहोरात्रे च छन्दसि (२-४-२८) द्वन्द्वः पूर्वव. हिङ्गः । हेमन्तश्च शिशिरश्च हेमन्तशिशिरी । अहोरात्रे । 'प्रदिप्रभृतिभ्यः शपः' (२४२३) । ३४०० बहुलं छन्दसि । (२-४-७३) वृत्रं हनति वृत्रहा । अहिः शयत उप पृक्पृथिम्याः । अत्र लुङ् न । अदादिभिजेऽपि कचिल्लुक् । बाध्य नो देवाः । 'जुहोत्यादिभ्यः श्लुः' (२४८९)। ३४०१ बहुलं छन्दसि। (२-४-७६) दाति' प्रियाणि चिद्वसु । अन्यत्रापि । पूर्णा विवष्टि । ३४०२ मन्त्रे घसरण रूपम् । अडभाव इति । 'बहुलं छन्दसि' 'न माङयोगे' इत्यनेन । नन्विदं 'लुङ्सनो:-' इत्यनेन सिद्धमित्याशङ्कयोदाहरणान्तरमाह । सग्धिरिति। अदनं ग्धिः । अदेः क्लिनि घस्लादेशे 'घसिभसोर्हलि च' इत्युपधालोपे 'झलो झलि' इति सलोपः । 'झषस्तथोः-' इति धत्वम् । धस्य जश्त्वम् । न च जश्त्वे कर्तव्येऽ. ल्लोपस्य स्थानिवत्त्वम् । 'न पदान्त-' इति सूत्रेण जश्त्वे तन्निषेधात् । ततः सम्गनशब्देन समासे कृते 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' इति सूत्रेण समानस्य सः । हेमन्तशिशिरौ । 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इति प्राप्तम् । अहोरात्रे इति । श्रहश्च रात्रिश्चेति द्वन्द्वे कृते 'अहःसर्वैकदेश-' इत्यनेन समासान्तोऽच् । 'यस्थेति च' इतीकारलोपः। 'रात्राहाहाः पुंसि' इति प्राप्तं द्वित्वमतन्त्रम्। 'अहोरात्राणि विदधत्' । छन्दसि किम् । हेमन्तशिशिरे । अहोरात्रौ । यद्यपि पाठक्रमेणेदं 'बहुलं छन्दसि' इति घस्लादेशविधायकसूत्रात्पूर्व व्याख्यातुं युक्तं तथापि 'व्यत्ययो बहुलम्' इति वक्ष्यमाणेन लिङ्गव्यत्ययविधायकेन गतार्थमिति ध्वनयितुं तथा न व्याख्यातम् । बहुलं छन्दसि । बहुलं शपो लुक् स्यात् । 'अदिप्रभृतिभ्यः' इत्युक्तं ततो न भवति। तथैवोदाहरति । वृत्रं हनतीत्यादि । हन्ति शेते इति लोके । त्राध्वमिति । त्रै पालने 'आदेच उपदेशेऽशिति' इत्यात्वम् । त्रायध्वमिति लोके । दातीति । ददातीति लोके । अन्यत्रापीति । जुहोत्यादिभिन्नेऽपि श्लुभवतीति शेषः । विवष्टीति । वश कान्तौ अदादिः । 'श्लो' इति द्वित्वम् । भृआमित्' । 'बहुलं छन्दसि' इति सूत्रेणाभ्यासस्थेकारः । 'वश्व-' इति पुराष्टुत्वम् । मन्त्रे घस। अडभाव इति । 'बहुलं छन्दस्यमाल्योगेऽपि' इत्युक्तेः । सग्धिरिति । क्लिनि 'घसिभसोर्हलि चे' त्युपधालोपः। 'समानस्य छन्दसी'ति सः । न च भवति अत्ता। प्रकृत्यन्तरन्तु सार्वधातुकमात्रविषयमिति बोध्यम् । हेमन्तशि । शिशिरशब्दस्य 'हेमन्तः शिशिरोऽस्त्रिया'मित्यमरादुभयलिङ्गत्वेऽपि हेमन्तशिशिरे इत्येतनिवृत्तये स्पष्टार्थम् । हेमन्तशिशिरावित्यमरस्य प्रमाद इत्यन्ये । अहोराने इति। 'रात्राहाहाः'
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy