SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ રૈ=૪ ] सिद्धान्तकौमुदी । [ वैदिकीप्रक्रिया तृतीया स्याद्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । श्रग्निहोत्रशब्दोऽत्र हविषि वर्तते । 'यस्याग्निहोत्रमधिश्रितममेध्य मापद्येत' इत्यादिप्रयोगदर्शनात् । श्रग्नये हूयत े इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः । ३३६५ द्वितीया ब्राह्मणे । ( २-३-६० ) ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः । ३३६६ चतर्थ्यर्थे बहुलं छन्दसि । ( २-३-६२ ) षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादावघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः । षष्ठ्यर्थे चतुर्थीति वाच्यम् । या खर्वेण पिबति तस्यै खर्वः । ३३६७ यजेश्च करणे ( २-३-६३ ) इह छन्दसि बहुलं षष्ठी । घृतस्य घृतेन वा यजते । ३३६८ बहुलं छन्दसि । ( २-४-३६ ) अदो घस्लादेशः स्यात् । घस्तामनूनम् । लुङि ' ( मन्त्रे घस )' ३४०२ इति च्लेर्लुक् । श्रडभावः । सग्ध॑िश्च मे । यवाग्वेति । अत्र यवागूशब्दात्तृतीया अग्निहोत्रशब्दाच द्वितीया । अग्निहोत्रशब्दो हविर्वाचकः । जुहोतिश्च प्रक्षेपणार्थः । यवाग्वभिन्नं हविरभौ प्रतिपतीत्यर्थेः । तदाहयवाग्वाख्यमित्यादि । भिन्नविभक्त्यवरुद्धत्वेऽपि भिन्नार्थकविभक्त्यनत्ररुद्धत्वान्नामार्थयोरभेदान्वयः । भाष्ये चैतत्सूत्रं प्रत्याख्यातम् । श्रनिहोत्रशब्दो नावपि वर्तते । यस्याग्निहोत्रं प्रज्वलितमिति दर्शनात् । हूयतेऽस्मिन्निति व्युत्पत्तेश्च । तद्यदा' यवागूशब्दात्तृतीया तदाग्निहोत्रशब्दो यमौ वर्तते जुहोतिश्च प्रीणने । यवाग्वा अग्निं प्रीणयतीत्यर्थः । यदा यवागूशब्दाद् द्वितीया तदाग्निहोत्रशब्दो हविषि वर्तत जुहोतिश्च प्रक्षेपणे । यवाग्वाख्यं हविद्रव्यं प्रक्षिपतीत्यर्थः । द्वितीया । 'दिवस्तदर्थस्य' इति वर्तते । तदाह ब्राह्मणेत्यादि । सोपसर्गस्य च्छन्दसि 'विभाषोपसर्गे' व्यवस्थितविभाषयापि सिद्धे निरुपसर्गार्थ आरम्भः । षष्ठयपवाद इति । 'दिवस्तदर्थस्य' इति प्राप्तायाः चतुर्थ्यर्थे । बहुलग्रहणात् चन्द्रमसेरुदमी रात्र्यै ( ? ) इत्यादौ षष्ठयभावः । यजेः । यजेर्धातोः करणे कारके छन्दसि विषये बहुलं षष्टी स्यात् । बहुलम् । 'अदो जग्धिः -' इत्यतः श्रद इति, 'लुड्सनो:-' इत्यतः घस्लृ इति च । अदो बहुलं घस्लादेशः । स्याच्छन्दसि । घस्तामिति । श्रदेर्लुङि 1 ● अथ द्वितीयः । हविषि वर्तत इति । हूयते तत् - होत्रम् । ततोऽग्निपदेन षष्ठीतत्पुरुषः । 'ये हूयते' इति त्वर्थप्रदर्शनम् । 'यवाग्वा' इति वाक्ये जुहोति त्यागपूर्व के प्रक्षेपे वर्तते । द्वितीया ब्राह्मणे । सोपसर्गस्य दिवेः 'विभाषोपसर्गे' इति व्यत्रस्थितविभाषया सिद्धे निरुपसर्गार्थोऽयमारम्भः । पुरुषमृगश्चन्द्रमसे इति । बहुलग्रहणाचन्द्रमसश्चतुर्थी । 'व्यत्ययो बहुल' मित्यस्यैवायं प्रपञ्चः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy