________________
प्रथमोऽध्यायः ] सुबोधिनी-शेखरसहिता। [३८३ छन्दसि परेऽपि । (१-४-८) ३३६२ व्यवहिताश्च । (१-४-८२) हरिभ्यां याझोक श्रा। आमन्दैरिन्द्र हरिभिर्याहि । ३३६३ इन्धिभवतिभ्यां च। (१-२-६) श्राभ्यां परोऽपिब्लिट् कित् स्यात् । समीधे दस्युहन्तमम् । पुत्र ईधे अथर्वणः । बभूव । इदं प्रत्याख्यातम् । इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति ।
इति प्रथमोऽध्यायः।
द्वितीयोऽध्यायः। ३३६४ तृतीया च होश्छन्दसि । (२-३-३) जुहोतेः कर्मणि व्याख्यातम् । अस्यापवादमाह । छन्दसीत्यादि । गत्युपसर्गसंज्ञकाश्छन्दसि परे प्रयोक्तव्याः । अपिशब्दात्पूर्वे । व्यव- व्यवहिता अपि गत्युपसर्गसंज्ञकाः प्रयोक्तव्याः। सूत्रद्वयस्योदाहरणे आह । हरिभ्यामित्यादि। अायाहीति प्राप्तम् । 'ते प्राग्' इत्यत्र संज्ञानियमपक्षो भाष्ये उक्तः ते इत्यनेन प्रादीनुपेत्येतत्पर्यन्तान्स्व. रूपेण पराश्य धातो: प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया संज्ञाविधानात् । अस्मिश्च पक्षे 'छन्दसि परेऽपि' 'व्यवहिताश्व' इति सूत्रद्वयं च कर्तव्यम् । इन्धिइन्धीत्युच्चारणार्थेनेकारेण निर्देशः। 'सुतियोः' इतिवत् न तु 'इश्तिपौ-' इति इका, नलोपापत्तेः । 'असंयोगात्-' इत्यतः लिट् किादेत्यनुवर्तते । तदाह । लिट् किदिति । जि इन्धी दीप्तौ, लिटः कित्त्वाद् 'अनिदिताम्-' इति नलोपः। संयो. गात्परत्वात्पूर्वेणाप्राप्तौ वचनम् । बभूवेति । कित्त्वाद् वृद्धयभाव 'भुवो वुक्-' इति वुक् । अत्र पित्त्वात्पूर्वेणाप्राप्तौ वचनम् । इदमिति । इन्धीति सूत्रम् । छन्दो. विषयत्वादिति । अयमभिप्राय:-इन्धेर्भाषायाम्' इजादेश्च-' इत्यामा भाव्यम् । छन्दसि तु अमन्त्रे इति प्रतिषेधाद् यद्यप्याम् नास्ति तथापि 'छन्दस्युभयथा' इति लिटः सार्वधातुकत्वे ङित्त्वात्समीधे इति नलोपः । श्नमभावस्त्वार्धधातुकत्वाच्छन्दसि दृष्टानुविधानात् । तुको नित्यत्वादिति । 'परनित्या-' इति परिभाषया परान्नित्यस्य बलीयस्त्वात् । कृताकृतप्रसङ्गित्वेन नित्यत्वात् । इति वैदिकीप्रकरणे प्रथमोऽध्यायः ।
तृतीया- 'कर्मणि द्वितीया' इत्यतः कर्मणीति वर्तते । अत्र द्वितीयायां प्राप्तायां तृतीया विधीयते, चशब्दात्सापि भवति । तदाह-कर्मणीति । 'घचश्छन्दसीति मयट् । 'ते प्रा'गित्यनुवृत्ति प्रदर्शनार्थम् । 'इन्धिभवतिभ्याचे' त्यस्य क्रमप्राप्तप्रथमोपन्यासत्यागे बीजमाह-इन्धेरिति । इति प्रथमोऽध्यायः।