SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३८२] सिद्धान्तकौमुदी। [वैदिकीप्रक्रिया मनुष्वदग्ने । (उ.) 'जनेरुसिः' इति विहित उसिप्रत्ययो भनेरपि बाहुलकात् । वृषण्वस्वश्वयोः । वृषन् वर्षकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तवर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भस्वाद्वार्यते । अत एव ‘पदान्तस्य' ( १९८) इति णत्वनिषेधेऽपि न । 'अल्लोपोऽन' ( २३४ ) इत्यल्लोपो न। अनङ्गत्वात् । ३३६० अयस्मयादीनि छन्दसि। (१-४-२०)। एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञा. द्वयं बोध्यम् । तथा च वार्तिकम् -* उभयसंज्ञान्यपीति वक्तव्यमिति । स सुष्टुभा स ऋक्वता गणेन । पदत्वात्कुत्वम् । भत्वाजश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भरवसामर्थ्येन बाधात् । नैन हिन्वन्त्यपि वाजिनेषु । अत्र पदस्वाजश्वम् । भस्वात्कुत्वाभावः । ते प्राग्धातोः' (२२३०)। ३३६१ रुत्वाभाव इति । 'ससजुषोः-' इति प्राप्तस्य । तत्र हि पदस्येत्यनुवर्तते । अङ्गि. रसा तुल्यमङ्गिरस्वत् । अत्रापि देहलीदीपकन्यायेन रुत्वाभाव इति संबध्यते । मनुष्वदिति । मनुषा तुल्यम् । अत्र भत्वाद् ‘आदेशप्रत्य ययोः' इति षः । पदसंज्ञायां तु रुत्वं स्यात् न षत्वम् । अपदान्तस्येति वचनात् । बाहुलकादिति। बहूनर्थान् लातीति बहुलम् । ला श्रादाने अस्मात् 'आतोऽनुपसर्गे' इति कः । बहुलस्य भावो बाहुलकम् । मनोज्ञादित्वावुञ्। वृषणिस्येतद्वसु, अश्व, एतयोश्व परतो भं स्यात् । 'निपातनान्येतानि छन्दोविषयाणी' ति कैयटः । वृषण्वसुरिति । लोके वृषवसुः । वृषाश्वः। नलोपः प्राप्त इति । 'नलीपः प्रातिपदिकान्तस्य' इत्यनेन । अतएवेति । भत्वादेवेत्यर्थः । अनङ्गत्वादिति । 'अल्लोपोऽनः' इत्यत्रास्येत्यधिकारात् । अयस्मयादीनि। आनन्तर्याद्भसंज्ञाद्वारेणैव निपातनं प्राप्तमित्याह । संज्ञाद्वयमिति। ननु 'अनन्तरस्य-' इति न्यायं बाधित्वोभयसंज्ञाविधाने किं प्रमाणमित्याशङ्कशाह । तथा च वार्तिकमिति । कुत्वमिति । 'चो कुः' इत्यनेन । जश्त्वाभाव इति । 'झलां जशोऽन्त' इति प्राप्तस्य । मक्कतेति । अयस्मयादिषु ऋक्कतेत्यादयः समुदाया एव बोध्याः। तेन जश्त्वमस्तु कुत्वं मा भूदिति वैपरीत्येन प्रसज्येतेति बोध्यम् । नैनमिति । वाचामिनाः प्रभवस्तेष्वप्येनं विद्वांसं न हिन्वन्ति । विवदितुं न गच्छन्तीत्यर्थः । ते प्रागितिमनेरिति । 'प्रादेशप्रत्यययो'रिति षत्वम् । अनङ्गत्वादिति । 'अङ्गस्य' 'भस्येति तत्राधिकारात्प्रत्यासत्त्याऽङ्गभसज्ञानिमित्तयोरेकत्वाश्रवणेन भसज्ञानिमित्तवसुशब्द. निरूपिताङ्गत्वाऽभावादिति भावः । एतद्वार्तिकद्वयं छन्दोविषयमिति कैयटः । संज्ञाद्वयमिति । तत्प्रयुक्त कार्यमित्यर्थः । अयस्मया । अयसो विकार इत्यर्थे
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy