________________
प्रथमोऽध्यायः ] सुबोधिनी-शेखरसहिता । [३८१ वचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा। लोके तु द्विवचनमेव । ३३८८ विशाखयोश्च ( १-२-६२) प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा । ३३८६ षष्ठीयुक्तश्छन्दसि वा । (१-४-६) षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन 'बहुलं छन्दसि' (३४०१) इत्यादिरस्यैव प्रपञ्चः । 'यचि भम्' (२३१) । नभोऽगिरोमनुषां वेत्युपसंख्यानम् । नभस तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः। अङ्गिरस्वदङ्गिरः । वेदरक्षाया व्याकरणारम्भस्य प्रयोजनत्वेन मुख्यतयाऽभिधानात् । 'ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयचे' ति वेदार्थज्ञानोपायतया वेदाङ्गत्वेनैव व्याकरणाध्ययनविधानाच्च । नन्वेवर्मा । वैदिकशब्दानां लौकिकशब्दाभिन्नत्वात्तदनुशासनेनैव सिद्धे किमर्थमेषामनुशासनमिति चेन्न । लौकिकशब्देभ्यो भिन्ना अपि वैदिकशब्दाः सन्ति । तद्यथा त्मना देवेषु' म्ध्वा जभार' गृभ्णामि ते' इयादयो वेदे दृश्यन्ते । लोके तु
आत्मना जहार गृणा मीत्यादयः । अत एव भाष्यकारो लौकिकेभ्यो वैदिकान्भेदन व्यपदिशति,-अथ शन्दानुशासनं, केषां शब्दानां ? लौकिकानां वैदिकानां चेति' इति तेषामन्वाख्यानमावश्यकमिति मनसि विभाव्याह छन्दसीत्यादि । पुनवेसुशब्देनोद्भूतावयवस्य ज्योतिःसमुदायस्याभिधानाद् द्वयोर्द्विवचने प्राप्ते एकवचन विधीयते । तदाह द्वयोरित्यादि । वा स्यादिति । द्वयोरेकवचनं वा स्यादिति 'जात्याख्यायाम्' इत्यतोऽन्यतरस्यामित्यनुवर्तनात् । लोके त्विति । 'गणं गताविव दिवः पुनर्वसू' इत्यादौ । विशाखा प्राग्वदिति । द्वयोरेकवचनं वा स्यादित्यर्थः । विशाखेति। अमरस्तु विशाखेति प्रयुञ्जानो द्विवचननियमं नेच्छति । सूत्रं तूदासीनम् । षष्ठीयक्तश्छन्दसि वा । 'पतिः समास एव' इत्यतः पतिरिति वर्तते । 'पतिः समास एव' इति नियमादसमासे न प्राप्नोतीति वचनमारभ्यते पतिनेति । घित्वात् 'प्राडो ना' इति नाभावः । षष्ठीनि किम् । 'मया पत्या जरदष्टियथासः' । छन्दसीति किम् । प्रामस्य पत्ये । योगं विभज्येति । 'षष्ठीयुक्तश्छन्दसि' इति उक्त एवार्थः । ततो 'वा छन्दसि' इत्यनुवर्तते । यावदिह शास्त्रे कार्य, तच्छन्दसि वा भवति । तदाह तेनेत्यादिना । नभोगिरसिति । नभस् अङ्गिरस् मनुष् एषां वति परे भत्वं वक्तव्यमित्यर्थः । नभस्वदिति । 'तेन तुल्यम्-' इति वतिः । भत्वफलमाह तारे । लोके त्विति । उद्धृतावयवभेदे समुदाये रूढत्वादिति भावः । एवं विशाखयोरपि द्वे तारे । तेन लोके द्विवचनमेव । योगविभागश्छन्दसीत्यस्योत्तरत्र निवृत्त्यर्थः । एवं हि चानुकृष्टत्वान्नोत्तरत्रावृत्तिः। वतीति । वत्प्रत्यये इत्यर्थः ।