SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७७ इत्यर्थः । अपवर्ग किम् । तिर्यकृत्वा काष्ठं गतः । ३३८३ स्वाङ्गे तस्प्रत्यये कृभ्वोः । ( ३-४-६१ ) मुखतःकृत्य गतः, मुखतः कृत्वा, मुखतः कारम् । मुखतो भूय, मुखतो भूत्वा, मुखतो भावम् । ३३८४ नाधार्थप्रत्यये व्यर्थे। (३-४-६२) नाधार्थप्रत्ययान्ते व्यर्थविषय उपपदे कृभुवोः क्त्वाणमुखौ स्तः । अनाना नाना कृत्वा नानाकृत्य नानाकृत्वा नानाकारम् । विनाकृत्य विनाकृत्वा विनाकारम् । नानाभूय नानाभूत्वा नानाभावम् । अनेक द्रव्यमेकं भूत्वा एकधाभूय एकधाभूत्वा एकधाभावम् । एकधाकृत्य एकधाकृत्वा एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा । ३३८५ भवितव्यं सौत्रो निर्देश' इति भाष्यम् । अपवर्ग इत्यस्य विवरणम् समाप्ताविति । स्वाते तस्प्रत्यये । पञ्चम्यर्थे षष्टीद्विवचनम् । तस प्रत्ययो यस्मादिति बहुव्रीहिः । तस् प्रत्ययान्ते खाङ्गे उपपदं कृओ भुवश्च त्वाणमुलावित्यर्थः । इह न यथासंख्यं व्याख्यानात् । नाधार्थ । 'विनभ्यां नानाजी नसह' इति सूत्रे असहत्वे विनम्भ्यां नाप्रत्ययो विहितः । 'संख्याया विधार्थे धा' इति धाप्रत्ययो विहितः । तस्य अर्थ इव अर्थो यस्य सः धार्थः । नाप्रत्ययो धार्थकश्च प्रत्ययो यस्मादिति बहुव्रीहिः । तदाह नाधार्थप्रत्ययान्त इति । नाप्रत्ययान्ते धार्थप्रत्ययान्ते उपपद इत्यर्थः । अर्थग्रहणं धाप्रत्ययमात्रेऽन्वेति । तेन धमुओऽपि ग्रहणं लभ्यते । नाप्रत्यये त्वर्थग्रहणं नान्वति. नाप्रत्ययान्ते धार्थप्रत्ययान्ते च्व्यन्तविषये उपपदे इत्यर्थः । अत एव भाष्ये अर्थग्रहणं स्थितं पार्श्वतः कृत्वा गत इत्यर्थः । स्वाङ्गे । तस्प्रत्ययो यस्मात्तस्प्रत्ययस्तस्मिन्स्वाङ्गे उपपदे इत्येके । प्रत्ययग्रहणपरिभाषया तस्प्रत्ययान्ते स्वाङ्गे इत्यन्ये । तस चासो प्रत्ययश्चेति कर्मधारयः । तस्प्रत्यये परतो यत्स्वाझं तस्मिन्नुपपद इति तु प्राशः । तत्र यद्यपि स्वाङ्गमानं नोपपदं तथापि तस्मिन्नित्येतत्प्रकृतिप्रत्ययसमुदायपरमिति बोध्यम् । मुखताकारं मुखतोभूयेति । क्त्वाणमुलोः कृभुवोश्च यथासङ्घयं नेष्यत इति भावः । मुखत इत्यत्राद्यादित्वात्सप्तम्यर्थे तसिः। प्रत्ययग्रहणं किम् ? । मुखे तस्यति मुखतः । तसु उपक्षये क्विप् । धातुत्वादिह 'अत्वसन्तस्य' इति दीर्घो न । मुखतः कृत्वा गत इति काशिकादौ स्थितम् । वस्तुतस्तु प्रत्ययाऽप्रत्ययपरिभाषयैवेष्टसिद्धः प्रत्ययग्रहणं सुत्यजम् । नाधार्थ । नार्थी 'विनम्भ्या' मिति विहितौ नानाऔं । धार्थाः। 'द्वियोश्च धमुञ्' इति धमुनादयः । 'सङ्ख्याया विधार्थे धा' इति धाप्रत्ययो धाऽर्थको भवतीत्याशयेनोदाहरति । एकधाभूयेत्यादि । एवं द्वैधकृत्य वैधम्भूय द्वैधम्भावमित्यायुदाहर्तव्यम् । ननु नानाजो प्रत्ययौ, धा च प्रत्ययः, धमुआदिविधी तु एकाद्धो ध्यमुअन्यतरस्या' मित्यतो 'ध' इत्यनुवर्त्य तेषामादेशत्वाश्रयणेऽपि स्थानि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy