________________
३७६ ]
सिद्धान्तकौमुदी ।
[ उत्तरकृदन्त•
गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्विस्वम् । ३३७६ अस्यतितृषोः क्रियान्तरे कालेषु । ( ३-४-५७ ) क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषूपपदेषु णमुल्स्यात् । व्यहास्यासं गाः पाययति । द्व्यहमस्यासम् । द्व्यहतर्षम् । द्व्यहं तर्षम् । अव्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते ।
पाययिया व्यहमतिक्रम्य पुनः पाययतीत्यर्थः । ३३८० नाम्न्यादिशिग्रहोः । ( ३ - ४ - ५८ ) द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति । ३३८१ अव्ययेऽयथाभिप्रताख्याने कृञः क्त्वाणमुलौ । ( ३-४-५६ ) अथवाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य च नीचैः कथनम् । उचैः कृत्य, उच्चैः कृत्वा, उच्चैःकारमप्रियमाचष्टे । नीचैः कृत्य, नीचैः कृत्वा, नीचैःकारं प्रियं व्रते । ३३८२ तिर्यच्यपवर्गे । ( ३-४-६० ) तिर्यक्छन्द उपपदे कृञःक्स्वाण - मुस्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य गतः । तिर्यक्कारम् । समाप्य गत प्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्पो न स्यादिति भावः । समासे त्विति । व्याप्तिणमुलि गेहस्य व्याप्यमानत्वाद् द्वित्वम् । सेवायां णमुलि तु रामुलन्तस्य द्वित्वम् । क्रियापौनःपुन्यस्यैव श्रासेवात्वादिति भावः । अस्यतितृषोः । द्वयहात्यासमिति । द्वयमतिक्रम्येत्यर्थः । श्रतिपूर्वादस्यतेर्णमुल् । द्वयहतर्षमिति । द्वयहं तृष्णावतीः कृत्वेत्यर्थः । नाम्न्यादिशिग्र होः । नाम्नि प्रादिशिप्रहोरिति छेदः । पञ्चम्यर्थे षष्ठी । द्वितीयान्ते नामन्शब्दे उपपदे श्राङ्पूर्वक दिशेः ग्रहधातोश्च मुलित्यर्थः अव्ययेऽयथाभि । अप्रियस्य नीवैः कथनं, प्रियस्योच्चैः कथनं न अभिप्रेतम् इष्टम्, तद्विपरीतम् अनभिप्रेतम् । तदाह यथाभिप्रेताख्यानं नामेत्यादि । 'तृतीया प्रभृतीन्यन्यतरस्याम्' इति समासविकल्पं मत्वा श्राह उच्चैःकृत्य उच्चैः कृत्वेति । समासपक्षे व्यबिति भावः । उच्चैः कारमिति । अत्र समासतदभावयोर्नास्ति विशेषः । स्वरे तु विशेषः । तिर्यच्यपवर्गे । 'तिरश्चीति
1
यथेति ।
सूत्रे द्वितीयायामित्यनुवर्तनात्तदन्तस्योपपदसंज्ञार्थमित्यर्थः । अव्यये । न यथाभिप्रेतमयथाभिप्रेतं तथाख्यान इत्यर्थः । प्रियस्योच्चैः श्रप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानम् । तद्विपरीताख्याने इति यावत् । नन्वप्रियाख्याने इत्येव कुतो नोक्तमिति चेदत्राहुः — प्रियस्य नीचैः कथनमपि प्रियाख्यानमेव, न त्वप्रियाख्यानमिति 'नीचैःकृत्य नौचैःकारं प्रियं ब्रूते' इति प्रयोगो न स्यात् । तथा अप्रियस्य नीचैः कथनमप्यप्रियाख्यानमिति । नीचैःकृत्य नीचैः कारमप्रियं ब्रूत इति प्रयोगोऽपि स्यादित्ययथाभिप्रेताख्याने इत्युक्तमिति । तिर्यक्कृत्वेति । श्रनृजुत्वादग्रतः