________________
प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिताः। [३७५ भ्रविक्षेपं कथयति । भ्रवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येनाङ्गेन विना न जीवनं तद् ध्रुवम् । ३३७७ परिक्लिश्यमाने च । (३-४-५५) सर्वतो विवाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल्स्यात् । उरःप्रतिपेषं युध्यन्ते। कृत्समुरः पीडयन्त इत्यर्थः । 'उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् । ३३७८ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः । ( ३-४-५६ ) द्वितीयायामित्येव । द्वितीयान्त उपपदे विश्यादिभ्यो णमुल्स्याब्याप्यमाने प्रासेव्यमाने चार्थे गम्ये । गेहादिद्रयाणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा । 'नित्यवीप्सयोः' (सू २१४०) इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुकत्वाद् । यद्यप्यामीचएये णमुलुक एव, तथापि असति ह्यासेवार्थकण मुलि भाभीचण्यणमुलः 'तृतीयाप्रभृतीनि' इत्यत्र संग्रहाभावाद उपपदसंज्ञार्थमासेवायामिह पुनर्विधिः। गेहानुप्रवेशमारते । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम्। गेहानुप्रपादम्। धातोर्णमुलित्यर्थः स्वाङ्गेऽध्रुवे । अध्रुवे इति छेद इति मत्वा आह अध्रुव इति । ननु शिर उत्क्षिप्येति कथं प्रत्युदाहरणम् । शिरसोऽपि अध्रुवत्वादित्यत आह येनाड्रेनेति । परिक्लि । उरोविदारमिति । कृत्स्नमुर इत्यर्थः। प्रतिचस्कर इति। कृ विक्षपे प्रतिपूर्वाकर्मणि लिट् । 'सुटकात्पूर्व' इति 'अडभ्यासव्यवायेऽपि' इति चानुवृत्तौ 'किरतौ लवने' 'हिंसायां प्रतेश्च' इति सुट् । नखैः प्रतिचिक्षिपे इत्यर्थः। ननु उरःप्रतिपेषमित्यादौ स्वाङ्गत्वादेव पूर्वसूत्रेणैव सिद्धमित्यत आह ध्रवार्थमिति । उरो विना जीवनाभावाद् उरः धूवमिति भावः । विशिपति । गेहादिद्रठयाणामिति । तथा च गेहानुप्रवेशमास्ते इत्यत्र सर्वाणि गेहान्यनुप्रवि श्यति पुन:पुनर्गहमनुप्रविश्यति वा अर्थः । उभयथापि न द्वित्वमित्याह नित्यवीप्सयोरिति द्वित्वं तु न भवतीति । कुत इत्यत आह समासेनैवेति । ननु समासेन कथमिह कथनं व्याप्त्यासेवयोरित्यत आह स्वभावत इति । ननु 'अभीदराये णमुल च' इत्यनेनैव सिद्धत्वाद् इह आसेवाग्रहणं व्यर्थम् । न च क्त्वानिवृत्तिः फलमिति शङ्. क्यम् । क्त्वाप्रत्ययस्यापि पक्षे इष्टत्वादिति शङ्कते यद्यपीति । समाधत्ते तथा. पीवि । द्वितीयान्तस्योपपदसंज्ञार्थमित्यर्थः । नन्विह आसेवाग्रहणाभावे 'तत्रोपपद' मिति उपपदसंज्ञा कुतो नेत्यत आह असति हीति । यद्यप्यासेवायो णमुलविध्यभावेऽपि 'भाभीक्ष्ण्ये णमुल च' इति णमुल् सिध्यति तथापि 'भाभीक्ष्ण्ये णमुल च' इति सूत्रे द्वितीयान्तस्य सप्तम्या निर्देशेन ग्रहणाभावादुपपदसंज्ञा न स्यात् । ततश्च 'तृतीयापगोरमिति। असिमुद्यम्येत्यर्थः । उपपदसंज्ञार्थमिति । 'विशिपति-' इति