________________
३७४ ] सिद्धान्तकौमुदी। [ उत्तरकृदन्ततृतीयासप्तम्यो(तोर्णमुल्स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते (युद्धसंरम्भात् ) । केशेषु गृहीत्वा । हस्तप्राहम् हस्तेन गृहीत्वा। ३३७२ प्रमाणे च । (३-४-५१) तृतीयासप्तम्योरित्येव । ब्यङ्गलोत्कर्ष खण्डिका छिनत्ति । व्यङ्गलेन ब्यङ्गले वोत्कर्षम् । ३३७३ अपादाने परीप्सायाम् । (३-४-५२) परीप्सा त्वरा । शय्योत्थायं धावति । एवं नाम त्वरते यदवश्यकर्तव्यमपि नापेक्षते । शय्योत्थानमात्रमपेक्षते। ३३७४ द्वितीयायां च । (३-४-५३) परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् । ३३७५ अपगुरो णमुलि । ६-१-५३)। 'गुरी उद्यमने' इत्यस्यैचो वा भारस्यारणमुलि । अस्यपगारं युध्यन्ते । अस्यपगोरम् । ३३७६ स्वाङ्गेऽध्रवे। (३-४-५३) द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । क्षेत्रविषयविलेखन एव तस्य प्रवृत्तरित्याहुः । समासत्तौ। समासत्तिपदं विगुणोति संनिकर्षे गम्यमाने इति । संनिकर्षोऽव्यवधानेन संयोगः । केशग्राहमिति । संनिकर्षपरमेतत् । अत्यन्तं संनिहिता युध्यन्ते इत्यर्थः । तदाह युद्धसंरम्भादिति। युद्धातिशयवशाधोद्धारः परस्परम् अत्यन्तं संनिहिता भवन्तीत्यर्थः । प्रमाणे च । इत्येवेति । तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णमुल् स्यात् प्रमाणे गम्ये इत्यर्थः । हस्वः खण्डः खण्डिका । द्वयगुलेनेति । 'तत्पुरुषस्यागुलेः' इति टजिति भावः। अपादाने । अपादाने उपपदे धातोणेमुल स्यात् परीप्सायां गम्यमानायामित्यर्थः । त्वरा दर्शयितुमाह एवं नामेत्यादि । द्वितीयायां च । द्वितीयान्ते उपपदे उपकृष्य हलेनोपकृष्येति, न त्विह णमुलिति स्थितमाकरे। समासत्तौ । केशग्राहमिति । केशेषु ग्रहणं भवतु वा मा भूत् संनिकर्षप्रतिपादनपरमेतत् । यङ्गलो. त्कर्षमिति । द्वयोरङ्गल्योः समाहारो यङ्गलम् । 'तत्पुरुषस्याङ्गलेः संख्याव्ययादेः' इत्यच् समासान्तः । द्यालेनोत्कृष्य । परिच्छियेत्यर्थः । स्वल्पः खण्डः खण्डिका ह्रस्वः खण्डः खण्डिकेति मनोरमायामुक्तम् । यद्यपि ह्रस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते अल्पे इस्वे इति पृथक् सूत्रस्वारस्यात् , तथापि हवदीर्घ इत्यादिनिर्देशादचेतनेष्वपि क्वचिद्भवतीत्याहुः । द्विती-| परीप्सायामित्येवेति । कथं तर्हि 'अनुदात्तं पदमेकवर्जम्' इति । नात्र त्वरा गम्यते। अत्राहुः-अस्यां हि परिभाषायां त्वरा विवक्षिता। तेनायमर्थः-उदात्तः स्वरितो वा यत्र विधीयत तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदात्तं कर्तव्यं न विलम्बितव्यमिति । यष्टिग्राहमित्यादि । एवं खलु युद्धाय त्वरन्ते यदासन्नं यष्टयादिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त इति भावः । अस्य