________________
प्रकरणम् ६८ ]. बालमनोरमा-तत्त्वबोधिनीसहिता [३७३ शाब्दान्वये किं कृत्वेत्याकाङ्क्षया उपदश्येति तदेव कर्मत्वेनान्वेति )। ३३६६ हिंसार्थानां च समानकर्मकाणाम् । (३-४-४८)। तृतीयान्त उपपदे. ऽनुप्रयोगधातुना समानकर्मकाद्धिसार्थात् णमुल्स्यात् । दण्डोपघातं गाः कालयति दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणाम् इति किम् ? दण्डेन चोरमाहत्य गाः कालयति । ३३७० सप्तम्यां चोपपीडरुधकर्षः। (३-४-४६) । उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल्स्यात् । पार्थोपपीड शेते, पार्श्वयोरुपपीडम् , पार्धाभ्यामपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन बजे उपरोधं वा। पाण्युदकर्ष धानाः संगृह्णाति पाणावुपकर्षम् पाणिनोपकर्षम्। ३३७१ समासत्तौ (३-४-५०)। इति । मूलकेन भुङ्क्ते इत्यन्वयः शाब्दः। प्रधानक्रियानुरोधात्परत्वाच तृतीया. विभक्तेः प्रवृत्तेरिति भावः । किं कृत्वति । किं कृत्वा मूलकेन भुङ्क्ते इत्याकाक्षायो उपदश्येत्यन्वेतीत्यर्थः । तदेवेति । किमुपदश्येत्याकाङ्क्षायां तदेव मूलकमर्थात् कर्मत्वेनान्वेतीत्यर्थः । हिंसार्थानां च। दण्डोपघातं गाः कालयतीति । 'कल विक्षो' चुरादिः । तत्रानुप्रयुज्यमानकालयतेरुपहन्तेश्च गावः कर्म । अतः समानकर्मकत्वमुपहन्तेरिति भावः । दण्डेनोपघातमिति । तृतीयाप्रभृतीन्यन्यतरस्यामिति उपपदसमासविकल्प इति भावः।दण्डताडमिति । 'तड आघाते' चुरादिः। सप्तम्यां चोपपीड । चात्तृतीयायामिति समुच्चीयते । 'कृष विलेखने' इति धातोः शपि कृतलघूपधगुणस्य कषेति निर्देशः । अतस्तौदादिकस्य निरासः । पीड, रुध, कर्ष, एषां समाहारद्वन्द्वात्पशम्यर्थे प्रथमा । पुंस्त्वं चार्षम् । उपपूर्वः पीडरुधकर्षः इति मध्यमपदलोपिसमासः। तदाह । उपपूर्वेभ्य इति । 'तृतीयाप्रभृती. न्यन्यतरस्याम्' इति उपपदसमासविकल्पं मत्वा आह । पार्श्वयोरुपपीड. मिति । तौदादिकात्तु कृषः क्त्वाप्रत्यय एव न तु णमुल् । क्षेत्रे उपकृष्य बीजान्यावपति । हलेनोपकृष्येति । यद्यपि तौदादिकोऽपि विलेखनार्थक एव तथापि प्रवृत्तेरिति दिक् । कालयतीति । कल विक्षेपे चुरादिः। प्रेरयतीत्यर्थः । दण्ड. ताडमिति । तड आघाते । अयमपि चुरादिरेव । सप्तम्यां चो । उपपूर्वेभ्य इति । सूत्र पीडादीनां समाहारद्वन्द्वं कृत्वा उपपूर्वः पीडरुषकर्ष इति उत्तरपदलोपी समास इति भावः । इह सौत्रं पुंस्त्वं पञ्चम्यर्थे प्रथमेति ज्ञेयम् । कर्षेति शपा निर्देशः। कृष विलेखने इत्यस्य गुणसहितस्योचारणात् । तत्फलं तुदादेप॑दासः । यद्यपि विलेखन एव सोऽपि पठ्यते तथापि क्षेत्रविषयकविलेखन एव स प्रयुज्यते। पञ्चभिः ईलैः कर्षतीति दर्शनात् । एवंच तौदादिकात् कृषः क्त्वाप्रत्यय एव भवति क्षेत्र