SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७२ ] सिद्धान्तकौमुदी। [उत्तरकृदन्त. संबन्धखथाप्यार्थोऽस्त्येव, कर्मस्वात् । एतावतैव सामर्थेन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् । (ततश्चायमर्थः । मूलकेन भुङ्क्ते इति न भवति । तस्य भुजिक्रियां प्रति करणत्वेनान्वयस्योकत्वादित्याक्षेपः । समाधत्ते । तथापीति । भुजिक्रियां प्रति शाब्दमर्यादया करणत्वेनान्वितस्यापि मूलकस्योपदंशनं प्रति आर्थिकः कर्मत्वान्वयोऽस्त्येव । मूलकस्योपदंशनं प्रति वस्तुतः कर्मत्वस्य सत्त्वादित्यर्थः । नन्वाथिककर्मत्वान्वयमादाय कथं तृतीया, कथं वा णमुल , कथं वा समास इत्यत आह । एतावतैवेति । कुत एतदित्यत आह । तृतीयायामिति वचनसामर्थ्यादिति । यदि तृतीयान्ते शाब्दान्वय एवात्र विवक्ष्येत, तदा करण इत्येवावक्ष्यत् 'करणे हनः' इतिवदिति भावः। मूलकस्य भुजिक्रियां प्रति करणत्वान्वयः शाब्दः । उपदंशे कर्मत्वान्वयः आर्थिक इत्येतदुपपादयति । ततश्चायमर्थ भुङ्क्ते । किं कृत्वा, उपदश्य । किमुपदश्य, अर्थान्मूलकमिति संबध्यते । एतावते. वेति । शाब्दान्वयाभावेऽपि आर्थिकान्वयमात्रेणेत्यर्थः । वचनसामर्थ्यादिति । यदि हि तृतीयान्तेन शाब्दान्वये सत्येव प्रत्ययो भवेत्तर्हि 'करणे हनः' इतिवत् 'उपदंशः करणे' इत्येव ब्रूयात् । ततश्च क्रियान्तरं प्रति करणत्वं मूलकेनेत्यस्येष्टमिति भावः । एतच्च मनोरमाग्रन्थानुसारेणोक्तम् । अत्र केचित्-नन्वेवम् 'उपदंशः कर्मणि' इत्येव सूत्रमस्तु । अत्रोपदंश इत्येवास्तु उपमाने कर्मणीत्यतः कर्मणीत्यनुवर्य कर्मण्युपपदे उपपूर्वकादशेर्णमुलिति । व्याख्यायतां किमनया कुसृष्टयेति । न चैवं कर्मण्युपपदे नित्यसमासः स्यादिति वाच्यम् । करणे इत्युक्तेऽप्युक्तदोषस्य तुल्यत्वात् । न च 'तृतीयाप्रमृतीनि-' इति सूत्रे करणप्रभृतीनीत्युक्ते नास्त्येव दोषः । 'करणे हनः' इत्सारभ्य विकल्प इति संदेहवारणाय 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति परिभाषास्वीकारादिति वाच्यम् । 'तृतीयाप्रमृति-' इति सूत्रे कर्मणिप्रमृतीत्युक्तेऽपि दोषाभावात् ।' 'कर्मण्याकोशे कृमः खमुन्' 'कर्मणि दृशिविदो:-' इत्यारभ्य वा विकल्प इति संदेहस्य 'व्याख्यानतो विशेषप्रतिपत्तिः' इति परिभाषया वारयितुं शक्यत्वात् । तस्माद् 'उपदंशः करणे' इत्येव ब्रूयात् इति मनोरमा चिन्त्येत्याहुः । वस्तुतस्तु कर्मणि प्रभृतीत्यन्यतरस्यामित्युक्ते 'उपमाने कर्मणि च' इत्यतः कर्मणीत्यनुवर्य उपदंश इत्येव सूत्रमिति खीकारपक्षे कषादिषु यथाविध्यनुप्रयोगोऽपि विकल्पेन स्यात् । मण्डूकप्लुत्याश्रयणं त्वगतिकगतिः । उपदंशः कर्मणीति सूत्रस्वीकारपक्षेऽपि मूलकोपदंशमिति समासस्य वैकल्पिकत्वात्समासाभावपः मूलकमुपदंशमिति वाक्यं स्यात् , इष्यते तु मूलकेनोपदंशमिति । करणे प्रमृतीनीति मनोरमोक्छौ तु समासाभावपक्षे मूलकेनोपदंशमिति सिध्यत्येव, करणतृतीयायाः
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy