________________
प्रकरणम् ६८ ]
बालमनोरमा-तत्वबोधिनीसहिता
३७१
चक्रे बनातीत्यर्थः ३३६३ संज्ञायाम् । ( ३-४-४२ ) । बनावे मुल्संज्ञायाम् । कौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । श्रट्टालिकाबन्धम् । बन्धविशेषाणां संज्ञा एताः । ३३६४ कर्त्रीर्जीवपुरुषयोर्नशिवहोः । ( ३-४-४३ ) । जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः । ३३६५ ऊर्ध्वे शुषिपुरोः । ( ३-४-४४ ) । ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृत्तादिरूत्रं एवं तिष्ठन्छुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः । ३३६६ उपमाने कर्मणि च । ( ३-४-४५ ) चाकर्तरि । घृतनिधाय निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः । ३३६७ कषादिषु यथाविध्यनुप्रयोगः । ( ३-४-४६ ) । यस्मागणमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् । ३३६८ उपदेशस्तृतीयायाम् । ( ३-४-४७ ) । इतः प्रभृति पूर्वकाल इति संबध्यते । 'तृतीयः प्रभृतीन्यन्यतरस्याम् ' ( सू ७८४ ) इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात् तृतीया । यद्यप्युपदंशिना सह न शाब्दः
1
मुलित्यर्थः । संज्ञायाम् । श्रनधिकरणार्थ आरम्भः । कर्त्रीः । 'नशिवहो:' इति पञ्चम्यर्थे षष्ठी । कर्तरि जवि उपपदे नशेः, कर्तरि पुरुषे उपपदे वहधातोर्णमुलित्यर्थः । ऊर्ध्व शुषि । ऊर्ध्वे कर्तरीति । उपपदे शुषेः पूरेश्व णमुलिति शेषः । उपमाने । चात्कर्तरीति । कर्मणि कर्तरि च उपमाने उपपदे धातोर्णमुलित्यर्थः । कषादिषु । यस्मादिति । धातोरिति शेषः । णमुलुक्त इति । 'निमूलसमूलयोः कषः' इत्यारभ्य ‘उपमाने कर्मणि च' इत्यन्तैः सूत्रैरिति शेषः । तथैवोदाहृतमिति । निमूलकाएं कत्रतीत्यादीति शेषः । एवं च पृथगिह नोदाहर्तव्यमिति भावः । उपदंशस्तृतीयायाम् । संबध्यते इति । मण्डूकप्लुत्येति शेषः । तृतीयान्त उपपदे उपपूर्वार्द्दशधातोर्णमुल समानकर्तृकयोः पूर्वकाले इत्यर्थः । नित्यमुपपदसमासमाशङ्कय आह । तृतीयाप्रभृतीनीति । ननु मूलकेनोपदंश भुक् इत्यत्र मूलकस्य उपदंशनं प्रति कर्मत्वात् कथं मूलकात् तृतीया, कथं वा उपदंशात् णमुल् इत्यतः आहृ । दश्यमानस्येत्यादि । प्रधानक्रियानुरोधात् परत्वाच्चेति भावः । ननु मूलस्य भुजिकियां प्रति करणत्वे उपदंशनेन असामर्थ्यात्समासानुपपत्तिरिति शङ्कते । यद्यपीति । उपदंशिना सह मूलकस्य कर्मत्वेनान्वयः शब्दगम्यो
तदाह । हस्तार्थे इति । संज्ञायाम् । श्रनधिकरणार्थ आरम्भः । तथैवेति । निमूलकाएं कषतीत्यायुदाहृतमित्यर्थः । मूलकोपदंशमिति । श्रयमर्थ:- मूलकेन