________________
३७० ]
सिद्धान्तकौमुदी। . [ उत्तरकृदन्त. प्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसंबन्धे तु "हिंसानां च-' (सू ३३६६ ) इति वच्यते । ३३५६ स्नेहने पिषः।(३-४-३८)। स्निह्यते येन तस्मिन्करणे पिषेर्णमुल । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः । ३३६० हस्ते वर्तिग्रहोः । (३-४-३६)। हस्वार्थे करणे । हस्तवतं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् । ३३६१ स्वे पुषः । ( ३-४-४०) करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशषे च णमुल | स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् । ३३६२ अधिकरणे वन्धः । (३-४-४१)। चक्रवन्धं बन्नाति । इगुपधेति । करणे हनः। ननु 'हिंसानां च समानकर्मकाणाम्' इत्यनुपदं वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह यथाविधीत्यादि । कषादिषु यथाविध्यनुप्रयोगसिद्धयर्थः सन् 'उपपदमति' इति नित्यसमासार्थोऽयमारम्भ इत्यर्थः । अनुप्रयोगार्थो नित्यसमासार्थश्चेति यावत् । हिंसार्थानां चेति सूत्रं च षादिबहिर्भूतं, तस्यात्र प्रवृत्तौ तु अनुप्रयोगो न स्यात् । किंच 'हिंसार्थानी च' इति सूत्रम् 'उपदंशस्तृतीयायाम्' इत्युत्तरं पठितम् । तस्यात्र प्रवृत्ती 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वैकल्पिक उपपदसमासः स्यादिति भावः। भाष्ये तु अहिंसाथ नित्यसमासाथ चेति स्थितम् । तर्हि हिंसार्थानां चे यस्य को विषय इत्यत आह भिन्नेति । णमुल्प्रकृतिभूतहनधात्वपक्षया धात्वन्तरयोगे तु दण्डोपघातं गाः कालयति दराडेनोपघातमित्यत्र 'हिंसार्थानां च' इत्यस्य प्रवृत्तिर्वक्ष्यते इत्यर्थः । स्नेहने पिषः । उदपेषमिति । 'पेषंवासवाहनधिषु च' इति उदकशब्दस्य उदादेशः । हस्ते वर्तिग्रहोः । पञ्चम्यर्थ षष्ठी । हस्त इत्यर्थग्रहणं व्याख्यानात् । तथा च हस्तार्थक इति लभ्यते, करण इत्यनुवर्तते, तदाह हस्तार्थे करणे इति । करणकारकीभूतहस्तपर्याये उपपदे ण्यन्तवृतुधातोर्ग्रहधातोश्च णमुलित्यर्थः । स्वे पुषः । अर्थ. ग्रहणमिति । व्याख्यानादिति भावः । तेनेति । स्वरूो स्वशब्दे, स्वपर्याये धनादिशब्दे, विशेषेषु स्वविशेषवाचिगवादिशब्देषु चोपपदेषु णमुलित्यर्थः। एतच्च 'स्वं रूपम्' इति सूत्रे भाष्ये स्पष्टम् । तत्र स्वशब्दे उपपदे उदाहरति स्वपोषमिति । धनन पुष्णातीत्यर्थः । पर्याये उपपदे उदाहरति धनपोषमिति। स्वविशेष उपपदे उदाहरति गोपोषमिति । अधिकरणे । अधिकरणे उपपदे बन्धधातोर्णकषणादिकं विशेषणं केवलकषणं तु विशेष्यमिति । स्नेहने । 'शुष्कचूर्ण-' इति सूत्रे एव स्नेहनग्रहणं न कृतम् । तत्र हि 'कर्मणि दृशिविदोः' इति सूत्रात्कर्मणीत्यनुवर्तते इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति। हस्ते । हस्त इत्यर्थग्रहणं