________________
प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६६ वस्त्रं शब्दायते तथाऽवर्षदित्यर्थः) । ३३५५ निमूलसमूलयोः कषः । (३-४३४)। कर्मणीत्येव । कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलका कषति । निमूलं समूलं कषतीत्यर्थः। एकस्यापि धात्वर्थप निमूलादिविशेषणसंबन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः । ३३५६ शुष्कचूर्णरूक्षेषु पिषः (३-४-३५) एषु कर्मसु पिषेणमुल । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् । ३३५७ समूलाकृतजीवेषु हन्कृञ्ग्रहः । (३-४-३६)। कर्मणीत्येव । समूलघातं हन्ति । प्रकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपधलक्षणः कः । जीवन्तं गृल्लातीत्यर्थः । ३३५८ करणे हनः । ( ३-४-३७) पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनु'क्यूयी शब्दे' इति स्वादौ । तदाह । चेलक्नोपमिति । कोपशब्दार्थ स्फोरयति । शब्दाययन्निति । वर्षप्रमाणं स्फोरयितुमाह । यथा वर्षण इति । निमूलसमूलयोः कषः । निमूले समूले च कर्मण्युपपदे कषेर्णमुलित्यर्थः । वक्ष्यतीति। 'कषादिषु यथाविध्यन् प्रयोगः' इति णमुलप्रकृतेरनुप्रयोगं वक्ष्यतीत्यर्थः । न संबध्यते इति । अयोग्यत्वादप्रतीतेश्व इति भावः । णमुलप्रकृतेरनुप्रयुज्यमानधातोश्च पौनरुक्त्यं परिहरति । एकस्यापीति । निमूलसमूलकषणापेक्षया केवलकषणमन्यत् । यथा इन्द्रो नहेन्द्र इति भावः । तेन सामान्येति । निमूलसमूलकषणात्मकं कषणमिति बोधः। यथा महादेवो देव इत्यादाविति भावः । शुष्कचूर्णरूक्षेषु पिषः। कर्मस्विति । उपपदेष्विति शेषः। अत्र पिषधातोरनुप्रयोगः । समूलाकृत । समूल अकृत जीव ए द्वन्द्वः । कर्मणीत्येव । समूलादिषु कर्मसूपपदेषु हन् कृत्र ग्रह एभ्यो णमुलित्यथः । यथासंख्यमत्रेष्यते । जीवशब्दस्य भावघअन्तत्वे प्राणधारणं गृह्णातीत्यर्थः स्यात् , न तु जीवन्तं गृह्णातीत्यर्थः स्यादित्यत आह जीवतीति जीव इति । ननु “प्रकर्तरि च कारके' इति पर्युदासात् कथं कर्तरि घनित्यत आह दर्थग्रहणमित्याहुः । चेलाष्विति । चेलनोपमित्यादि । यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इत्यर्थः । अन्ये तु क्नूयी शब्दे उन्दे च, उन्दी क्लेदने, क्लिदू पार्दीभावे, इत्येवं नोपमिति णमुलन्तस्य प्रकृत्यर्थ पर्यालोच्य यथा वर्षणेन चेलान्यार्दीभवन्ति तावद् वृष्ट इति व्याचख्युः। निमूलमिति । नियतं मूलमस्य निमूलम् । सह मूलेन समूलम् । निमूलसमूलकषणाभिन्नं कषणमिति । शाब्दबोधः । तेनेति । अत्रेदं बोध्यम्-सामान्यं विशेष्यं, विशेषस्तु विशेषणम् । अाम्रो वृक्ष इत्यादौ ाम्रो विशेषणं वृक्षस्तु विशेष्यमिति सर्वजनानुभवात् । यतश्चात्र निमूल