SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ । सिद्धान्तकौमुदी [ उत्तरकृदन्तइत्यर्थः । ब्राह्मण वेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा त स भोजयतीत्यर्थः । ३३५१ यावति विन्द जीवोः (३-४-३०) यावद्वेदं भुङ्क्ते। यावल्लभते तावदित्यर्थः । यावजीवमधीते । ३३५२ चर्मोदरयोः पूरेः । ( ३-४-३१) कर्मणीत्येव । चर्मपूरं स्तृणाति । उदरपूरं भुने । ३३५३ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्। (३-४-३२) कर्मण्युपपदे पूरेर्णमुल्स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदनं वृष्टो देवः । अस्य इति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् । ३३५४ चेले कोपेः। (३-४-३३) चेलार्थेषु कर्मसूपपदेषु क्रोपेर्णमुल्स्यावर्षप्रमाणे। चेलनोपं (शब्दाययन् ) वृष्टो देवः । वस्त्रकोपम् । वसनकोपम् । यथा वर्षणे स्थानिवत्त्वानोपधावृद्धिः। विदि विकृणोति जानाति लभते विचारयति वेति । "सत्तायां विद्यते ज्ञाने वेत्ति वित्त विचारणे । विन्दते विन्दति प्राप्तौ श्यन्लुश्नम्शेष्विदं कमात्" इति प्रागुक्तम् । तत्र सत्तार्थकस्य विदेरिह न ग्रहणम् अकर्मकत्वादिति भावः । यावति विन्दजीवोः। यावच्छन्द उपपदे विन्दतेः जीवतेश्च णमुलित्यर्थः । इह पूर्वकाल इति न संबध्यते, अयोग्यत्वाद् अप्रतीतेश्च । एवमन्यत्रापि। या वजीवमधीत । यावन्तं कालं जीवति तावन्तं कालमधीते इत्यर्थः । 'अकर्मकधातुभिर्योगे' इति कर्मत्वाद् यावच्छन्दाद् द्वितीया । चर्मोदरयोः पूरेः। चर्मणि उदरे च कर्मण्युपपदे पूरयतेर्णमुलित्यर्थः । चर्मपूरं स्तुणातीति । चर्म पुरयन् छादयतीत्यर्थः । गोष्पदप्रमिति । पूरेर्णमुलि णिलोपे ऊनोपपक्षे च रूपम् । अत्र वृष्ट!. पदपूरणक्षमत्वादल्पत्वं गम्यते । अस्येति किमिति । पूरेरित्यर्थकम् । अस्येति किमर्थमित्यर्थः । मूषिकाबिलप्रमिति । अस्येत्यनुक्तौ उपपदेऽपि ऊकारस्य लोपः स्यादिति भावः। चेले कोपे: । चेल इत्यर्थग्रहणम् , व्याख्यानादिति भावः । प्रतिपादनपरमेतत् । ब्राह्मणवेदमिति । विद ज्ञाने, विद्ल लाभे, विद विचारणे इति धात्वर्यान् पर्यालोच्य व्याचष्टे । जानातीत्यादि । सत्तार्थस्य विधेरनेकार्थत्वान्नेह प्रहणमिति भावः। यावति विन्द । विदेर्लाभार्थस्यानुकरणम् । तस्य हि विन्दतीत्यादौ 'शे मुचादीनाम्' इति नुमस्ति । यावल्लभत इति । असाकल्यमनेन दर्शयति । साकल्ये हि 'कर्मणि दृशिविदोः-' इत्यनेनैव सिद्धम् । चर्मोदर। कर्मणीवेति । एवं च पूरेरिति ण्यन्तस्य निर्देशो न तु केवलस्य । 'इकिश्तपी-' इति इका निर्देशः । तस्याकर्मकत्वादिति भावः । चर्मपूरमित्यादि । चर्भ पूरयित्वा । उदरं पूरयित्वा । उदरपूरणविशिष्टा भुजिक्रियेत्यर्थः। इह पूर्वकाले इति न संबध्यतेऽसंभवादप्रतीतेश्च । एवमन्यत्रापि यथासंभवं बोध्यम् । चेले । व्याख्याना
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy