________________
प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६७ सिद्धोऽप्रयोगोऽस्यैवंभूतश्चेस्कृञ् । व्यर्थत्वात्प्रयोगानह इत्यर्थः । अन्यथाकारम् । एवंकारम् । कथंकारम् । इत्थंकारम् भुक्रे । इत्थं भुन इत्यर्थः । सिद्ध -इति किम् । शिरोऽन्यथा कृत्वा भुङ्क्ते । ३३४६ यथातथयोरसूयाप्रतिवचने । (३-४-२८) कृज सिद्धाप्रयोग इत्येव, असूयया प्रतिवचने। यथाकारमहं मोचये, तथाकारं भोये, किं तवानेन । ३३५० कर्मणि दृशिविदोः साकल्ये (३-४-२६ ) कर्म एयुपपदे णमुल स्यात् । कन्यादर्श वरयति। सर्वाः कन्या अर्थावगत्यभावे तत्प्रयोगो वा किमर्थ इत्यत आह । व्यर्थत्वादिति । निष्फलत्वादिति भावः । अर्थस्याविवत्तितत्वेऽपि णमुल्प्रत्ययसाधु-वार्थ तत्प्रयोग इति भावः । तदेव दर्शयति । इत्थं भाइक्के इत्यर्थ इति । 'समानकर्तृकयोः पूर्वकाले' इत्यसंभवान्नानुवर्तते इति भावः। सिद्धति किमिति । सिद्धाप्रयोगवेदिति किमर्थमित्यर्थः । भाष्ये अन्यथा कृत्वा बोदितमिति प्रयोगात् समानकर्तृकत्वाभावेऽपि क्त्वाप्रत्ययो बोध्यः । यथातथयोः । इत्येवेति । यथा तथा अनयोरुपपदयोः कृतः णमुल स्यात्सिद्धाप्रयोगश्चेत् कृषिति फलितम् । असूयया प्रतिवचनमिति विग्रहः । 'कर्तृकरणे कृता बहुलम्' इति समासः । तदाह । असूययेति । कर्मणि दृशिविदोः । कर्मणीति नार्थनिर्देश इत्याह कर्मण्युपपदे इति । कर्मण्युपपदे तदर्थस्य धात्वर्थ प्रति कर्मभूतस्य साकल्ये गम्टे दृशिविदिभ्यां णमुल् इति फलितम् । समानकर्तृकयोः पूर्वकाले इत्यनुवर्तत एव । वरयतीति । 'वर ईप्सायाम्' चुरादौ कथादिरदन्तः । अल्लोपस्य विषयकम् । तेन स्वाकृत्वेत्यपि सिध्यति । स्यादेतत्-उक्तदोषपरिहाराय स्वादुमी येव सूत्रमङ्गीक्रियतां, णमल तु त्यज्यता, कृत्रः खमुनि कृतेऽपि स्वादुङ्कारमित्यादिरूपसिद्धिरिति चेन्मैवम् । तथा सत्युत्तरसूत्रेषु संनिहितत्वात् खमुझेवानुवर्तत इति कन्यादर्श ब्राह्मणवेदमित्यादिषु पूर्वपदस्य मुमागमः स्यादिति दिक् । व्यर्थत्वादिति । निष्प्रयोजनत्वादित्यर्थः । तदेतदर्शयति । इत्थं भुङ्ग इत्यर्थ इति । इह शाब्दबोधे विशेषसत्त्वेऽपि फलितार्थकथनपरतया कारमिति णमुलन्तस्य निष्फलत्वमुक्तमनतिप्रयोजनत्वात् । विस्तारस्तु मनोरमादावनुसन्धेयः। शिरोऽन्यथेति । इह शिरोऽ. न्यथा कृत्वौदनादिकं भुत इत्यर्थलाभाय करोतः प्रयोग आवश्यकः । तदभावे तु भुक्तिक्रियागत एव : कारो गम्येत न तु शिरसोऽन्यथाकरणम् । अतः करोतेः प्रयो. गार्हत्वमस्तीति णमुतन्तः करोतिरिह न प्रयुज्यत इति भावः । यथाकारमिति । प्रष्टुमनहः सन्यदि पृच्छति तदेदमुत्तरम् । अत्रापि वासरूपन्यायेन पक्षे क्त्वाप्रत्ययो बोध्यः । कन्यादर्शमिति । अत्र दर्शनविषयीभूतानां सर्वासां कन्यानां वाक्याऽन्वयात्साकल्यं षोध्यम् । सर्वा इति । दर्शनविषयीभूताः सर्वा इत्यर्थः । अतिशय