________________
३६६ ]
सिद्धान्तकौमुदी। [उत्तरकृदन्त. णमुल्यादेककर्तृकयोः पूर्वकाले । स्वादुशब्दस्य मान्तत्वं निपात्यते । अस्वाद्वीं स्वाद्वी कृत्वा भुक्के स्वादुंकारं भुते । संपत्रकारम् । लवणंकारम् । संपन्नलवणशब्दो स्वादुपर्यायौ । वाऽसरूपेण क्वापि । स्वादुं कृत्वा भुते । ३३४८ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् । ( ३-४-२७)। एषु कृषो णमुरुस्यात् खादुशब्दस्य खादावित्येव निर्देश उचित इत्यत आह-स्वादुशब्दस्येति । नन्वत्र खमुवानुवर्तताम् । एवं च स्वादुमि मान्तत्वनिपातनमपि न कर्तव्यमित्याशङ्कय स्त्रियां च्यन्तमुदाहरति-अस्वाद्वीमिति । यवागूमपूपिकामित्यादि विशेष्यम् । अत्र णमुलि विवक्षिते मान्तत्वे निपातिते उदन्तत्वाभावाद् 'वोतो गुणवचनात' इति न डीप । खमुनि कृते 'अरुर्द्विषत्' इति मुमि तु स्वाद्विकारमित्येव प्रसज्येत । किंच व्यन्तस्याव्ययत्वाद् 'अरुर्द्विषत्' इति मुम् दुर्लभः. तत्र मुम्विधौ अनव्ययस्येत्यनुवृत्तेः । ततश्च अखादं खादं कृत्वा भुङ्क्ते स्वादुकारं भुक्के इत्यत्रापि मुम न स्यात् , खमुनः खित्त्वस्य चोरंकारमित्यत्र सावकाशत्वात् । किंच 'वो' इति दीर्घापत्तिः। अतो णमुलि खादुशब्दे मान्तत्वनिपातनमिति भावः । स्वादुमीत्यर्थग्रहणस्य प्रयोजनमाह । संपन्नकारमिति । अत्र 'अस्य च्वौ' इति ईत्त्वाभावोऽपि मान्तत्वनिपातनस्य फलं बोध्यम् । स्वादुपर्यायाविति । वृत्त्यादिग्रन्थेषु तथा दर्शनादिति भावः । वासरूपेण क्त्वापीति । यद्यपि 'स्त्रियां क्विन्' इत्यतः प्रागेव वाऽसरूपविधिरिति भाष्ये स्थितम । तथापि तत्रैव भाष्ये 'क्वायां वावचनम्' इत्ति क्त्वाप्रत्ययविषये वाऽसरूपविधिप्रवृत्तेविशिष्य वचनादिह क्वापि भवतीत्यर्थः । वाऽसरूपविधिः स्त्रियामित्यधिकारात् प्रागूवं च भवतीति पक्षान्तरमपि तत्रैव भाष्ये स्थितम् । तत्पः क्त्वायां वाऽसरूपप्रवृत्तिनिर्बाधेत्यास्तां तावत् । अन्यथैवम् । अन्यथा, एवम्, कथम् , इत्थम् , · एषामव्ययानां द्वन्द्वात्सप्तमीबहुवचनम् । सिद्धः अप्रयोगः प्रयोगाभावः यस्य कृषः स सिद्धाप्रयोग इति विग्रहः । तदाह । एषु कृन इत्यादि । ननु कृयः अप्रयोगे कथं तदर्थावगतिः। दुमि। खादुमीत्यर्थग्रहणं व्याख्यानात्तदाह । खाद्वर्थेष्विति । मान्तत्वमिति । ननु खादौ इत्येव सूत्रमस्तु मास्त्वत्र णमुल्। खमुवानुवर्त्यताम् । 'अरुषित्-' इति मुम्भविष्यति । एवं च निपातनं विनापि मान्तत्वं सिध्यतीति महल्लाघवमिति चेन्मैवम् । च्व्यन्तस्य मुम् न स्यादनव्ययस्येति वचनात्ततश्च खादुंकारमित्यत्र 'च्चो च' इति दीर्घः स्यात् , संपर्शकारमित्यादिषु 'अस्य च्वौ' इतीत्वं स्यात् । किं च स्त्रियां 'वोतो गुणवचनात्' इति गषि खाद्वीकारमिति स्यात् । अतोऽत्र खादुमीति रूपं निपात्यते । ततश्चानजन्तत्वानेत्वदी! न वा डीए । निपातनमिह भावप्रलयमात्र