________________
प्रकरणम् ६८ |
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ३६५
आभीषण्य इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्वाणमुल वा स्तः । अग्रे भोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्व भोजम् । पूर्वं भुक्त्वा । पत्ते लडादयः । अग्रे भुङ्क्ते ततो व्रजति । श्रभीच्यये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे भोजंभोजं व्रजति । भुक्त्वाभुक्त्वा । ३३४६ कर्मण्याक्रोशे कृञः खमुञ् । ( ३-४-२५ ) कर्मण्युपपदे श्राक्रोशे गम्ये कृञः खमुज् स्यात् । चौरंकारमाक्रोशति । करोतिरुच्चारणे । चौरशब्दसुच्चार्येत्यर्थः । ३३४७ स्वादुमि णमुल् । ( ३-४-२६ ) | स्वाद्वर्थेषु कृञो
1
इत्यव्ययम् । एदःतं वा निपातनात् । नानुवर्तते इति । एतच्च भाष्ये स्पष्टम् । प्रथमं भोजमिति । प्रथममिति क्रियाविशेषणम् । पूर्व भोजमिति । पूर्वमिति क्रियाविशेषणम् । पते इति । क्वाणमुलौ तावदव्ययकृत्त्वार्थकौ । यदा तु कर्तृदेवता तदा लादय इत्यर्थः I ननु प्रथमपूर्वपदेषूपपदेषु क्ाणमुलौ परत्वादाभीक्ष्ण्येऽपि स्यातामित्यत श्राह - ग्राभीक्ष्ण्ये तु पूर्वविप्रतिषेधेनेति । व्याख्यानादिति भावः । कर्मण्याक्रोशे । कर्मणीत्युपपदनिर्देशः । आक्रोश इति द्योत्यार्थ इति मत्वा व्याचष्टेकर्मण्युपपदे श्राक्रोशे गम्ये कृञः खमुत्रिति । स्पष्टत्वात् न व्याख्येयमिति भावः । चौरङ्कारमिति । उपपदसमासे 'अरुर्द्विषदजन्तस्य' इति मुम् । स्वादुमित् । स्वादुमीत्यर्थग्रहणम् । व्याख्यानात् । तथा च स्वादुपर्याये उपपद इति लभ्यते । 'कर्मण्याक्रोशे' इति पूर्वसूत्रात् कृञ इत्यनुवर्तते नतु खमुञ्, अस्वरितत्वात् । ततश्च 'आभीदराये णमुल् च' इत्यतः णमुलित्यनुवर्तते, 'समानकर्तृकयोः पूर्वकाले' इति सूत्रं च । तदाह – स्वाद्वर्थेष्वित्यादिना । ननु
नात् क्त्वाप्रत्ययेऽपि न भवतीति । विभाषाग्रे । यद्यप्यप्रेशब्दो देशविशेषवचनोऽप्यस्ति प्रभोरं भुङ्क्ते इत्यादिप्रयोगात्तथापीह कालविशेषवाच्येव गृह्यते प्रथमशब्दसाहचर्यात् । प्रथमं भुङ्क्ते इत्यादौ तु काल एव प्रतीयते । इति सप्तम्यन्तस्यानुकरणम् । ‘प्रकृतिवदनुकरणम्' इत्यस्य वैकल्पिकत्वाद्विभक्तेर्लुङ् न कृतः अस्यवामीयमिति वत् । अग्रेभोजमिति । 'अमेवाव्ययेन' इति नियमाद् व्यस्तमेवेदं, न त्वत्रोपपदसमासः। नन्वग्रेप्रथमपूर्वशब्दैः पूर्वकालत्वमुच्यत इति कथमिह क्वाणमुलौ स्यातामिति चेदत्राहुः—अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वा व्रजतीति हि वाक्यार्थस्तत्राग्रेप्रभृतिभिर्भोपेक्षया पूर्वत्वमुच्यते चेदत्रापि अन्येभ्यो भोक्तृभ्यः पूर्वं व्रजतीति, वजनापेक्षया पूर्वत्वं तु क्त्वाणमुल्भ्यां द्योत्यत इत्याशङ्कवात्र नास्तीति । नित्यमेव विधिरिति । श्रप्रे भुङ्कं इत्येव लडादिर्न प्रयुज्यत इति भावः । स्वा