SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ ] सिद्धान्तकौमुदी । [ उत्तरकृदन्त द्वित्वम् । स्मारंस्मारं नमति शिवम् । स्मृत्वास्मृत्वा । पायपायम् । भोजंभोजम् । श्रावंश्रावम् । 'चिण्णमुलो: -' ( सू २७६२ ) इति णमुल्परे णौ वा दीर्घः । गामंगामम् । गमंगमम् । 'विभाषा चिण्णमुलो:' ( सू २७६५ ) इति नुम्वा । लम्भलम्भम् । लाभलाभम् व्यवस्थितविभाषयोपसृष्टस्य नित्यं नुम् । प्रलम्भंप्रलम्भम् । 'जाप्रोऽविचिण्णल्-' ( सू २४८० ) इति गुणः । जागरंजागरम् । ण्यन्तस्याप्येवम् । ३३४४ न यद्यनाका । ( ३-४-२३ ) छन्द उपपदे पूर्वकाले यत्प्राप्त तन्न, यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षति चेत् । यदयं भुङ्क्ते ततः पठति । इह क्वाणमुलौ न । श्रनाकाले किम् । यदयं भुक्वा व्रजति ततोऽधीते । ३३४५ विभाषाऽग्रे प्रथमपूर्वेषु । ( ३-४-२४ ) विधिरिति युज्यते । श्राभीराये पूर्वविप्रतिषेधेन 'अभीक्ष्ण्ये णमुल् च इत्यस्यैव प्रवृत्तेरिष्टत्वादिति शब्देन्दुशेखरे विस्तरः । द्वित्वमिति । 'नित्यवीप्सयो:' इत्यनेनेति शेषः । स्मृत्वास्मृत्वेति । नमति शिवम् इत्यनुषज्यते । पायपायमिति । ! 'आतो युक् चिराकृतो:' इति युक् । वा दीर्घ इति । गमेर्यन्तारणमुलि 'मितां ह्रखः' इति ह्रस्वे कृते 'चिराणमुलो:' इति दीर्घविकल्प इत्यर्थः । व्यवस्थितेति । व्याख्यानादिति भावः । उपसृष्टस्येति । उपसर्गपूर्वस्येत्यर्थः । जागृधातोर्णमुलि वृद्धिमाशङ्कय आह जाग्र इति । ण्यन्तस्याप्येवमिति । जागृधातोण वृद्धिं बाधित्वा 'जाप्रोविचिरागलङित्सु' इति गुणे णिलोपे जागरमित्येव रूपमिति भावः । न यद्यनाकाङ्क्षे । यत्प्राप्तमिति । क्त्वा णमुल् चेत्यर्थः । यत्रेति । यस्मिन्वाक्ये पूर्वोत्तरकालिकक्रियापदे स्तः, तद्वाक्यं वाक्यान्तरं नाकांक्षति चेदित्यर्थः । पूर्वोत्तरकालिकक्रियापदद्वययुक्तं वाक्यं वाक्यान्तरं नाकाङक्षति चेद् इति यावत् । यदयमिति यदिव्ययम् । यदायं भुक्ते ततः पर पठतीत्यर्थः । इदमेकं वाक्यं भुजिपठिक्रियापदद्वययुक्तं न वाक्यान्तरमाकाङ्क्षतीति भावः । यदयं भुक्त्वा व्रजतीति । भुजिव्रजिक्रियापदयुक्तमिदं वाक्यम् । ततः श्रधीत इति वाक्यान्तरमाकाङ्क्षति । नात्रायं निषेध इति भावः । विभाषा । अप्रे, प्रथम, पूर्व, एषां द्वन्द्वः । अप्रे पूर्वकाले' इत्यर्थे । पायपायमिति । श्रतो युक् । वा दीर्घ इति । गमेर्यन्ताराणमुलि मितां हस्खे च कृते वा दीर्घ इत्यर्थः । ण्यन्तस्यापीति । यत्तु प्राचा एयन्तजागर्ते श्चिरणमुलोर्वा वृद्धिरिति मतमुपन्यस्तं तदपाणिनीयमिति भावः । न यदि । अनाकाङ्क्ष इति पचाद्यजन्तेन न समासस्तद्दर्शयति । नाकाङ्क्षते चेदिति इहेति । नन्वेवम् 'अनन्तरस्य' इति न्यायात् णमुल मा भूत् । क्त्वा तु 'समानकर्तृकयोः' इति सूत्रान्तरेण स्यादेवेति चेदत्राहुः - पूर्वकाले यत्प्राप्नोति तन्नेति व्याख्या
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy