________________
प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३६३ तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति । ३३४३ श्रभीदण्ये मुल्च । ( ३-४-२२ ) पौनःपुन्ये द्योत्ये पर्वविषये णमुल्स्यात् क्त्वा च । तत्पूर्वकाल के तथापि व्यादानोत्पत्त्युत्तरकाले निमीलनोत्पत्त्युत्तरकालेऽपि स्वापहासौ अनुवर्तते । तत्र स्वापोत्पत्तिकाली नव्यादानस्य हासोत्पत्तिकालीननिमीलनस्य च तत्कालीनस्त्रापहासपूर्वकालकत्वाभावेऽपि तदुत्तरकालानुवृत्तस्वापहासापेक्षया पूर्वकालकत्वसत्त्वात् क्त्वाप्रत्यय इत्यर्थः । 'मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते' इत्यादौ तु समानकर्तृकताऽविघाताय स्थितस्येत्यायध्याहार्यम् । अभीक्ष्ण्ये णमुल् च । 'समानकर्तृकयोः पूर्वकाल' इत्युत्तरमिदं सूत्रम् । तदाह पूर्वविषये इति । यद्यपि वाऽसरूपविधिना क्त्वा सिद्ध: । स्त्र्यधिकारात्प्रागेव वासरूपविधिपक्षेऽपि क्वाविधौ वाऽसरूपवचनस्य वाऽसरूपसूत्रभाष्ये प्रपञ्चितत्वात् । तथापि ' विभाषाप्रेप्रथमे' इति सूत्रे उभयोर्विधानाय चकारः । तत्र हि प्रेभोजं व्रजति देवदत्तः श्रभुक्त्वा इत्यादौ दवदत्तकर्तृकभोजने यज्ञदत्तादिकर्तृकभोजनापेक्षया पूर्वकालत्वमप्रादिशब्देन बोध्यते, न त व्रजनादिक्रियापेक्षया पूर्वकालत्वम् । ततश्च समानकर्तृकयोः' इति क्त्वाप्रत्ययस्य तत्र न प्रसक्तिः । नापि 'विभाषाप्रे' इत्यनेन श्राभीराये तत्राप्राप्त
1
न चेह तदस्ति । पूर्वं यसौ स्वपिति पश्चान्मुखं व्यादत्ते । यदैव हसति तदैव नेत्रे संमीलयति । तथा च क्त्वाप्रत्ययस्य दुर्लभत्वाल्लयपः प्रसक्तिरेव नास्तीति प्रश्नः । समाधते । व्यादानेत्यादिना । एतेनेश्वरः सर्वं व्याप्य वर्तते, ज्ञात्वा तिष्ठतीत्यादि व्याख्यातम् । ‘श्रीशैलशिखरं दृष्ट्रा पुनर्जन्म न विद्यते' इत्यादौ तु समानकर्तृकता - निर्वाहार्थं स्थितस्येत्यादि यथासंभवमध्याहार्यम् अभीक्ष्ण्ये णमुल् च । ननु वासरूपन्यायेन क्त्वाप्रत्ययो भविष्यतीति चप्रहणमिह व्यर्थमिति चेन्मैवम् । उक्तन्यायस्वीकारे तु लडादिरपीह प्रवर्तेत । न चेष्टापत्तिः, 'विभाषाये-' इति वक्ष्यमाणसूत्रस्थविभाषाग्रहणस्य वैयर्थ्यप्रसङ्गात् । तत्र हि क्त्वाणमुलौ विभाषाग्रहणेन लडा - दिसमावेशार्थं विकल्प्येते । यद्यपि वासरूपन्यायेनैव लडादिः सिध्यति, तथापि णमुला सदैव क्त्वाप्रत्ययो यत्र विधीयते तत्र वासरूपविधिर्न प्रवर्तत इति ज्ञापनार्थ विभाषाग्रहणम् । तत्फलं तु 'श्राभीराये णमुल् च' इत्यत्र लडाद्यप्रवृत्तिः । ततश्च चकारेणैव क्त्वाप्रत्ययो लभ्यत इति नास्त्येव तस्य वैयर्थ्यम् । किं च वासरूपं विनैव क्त्वालडा : स्वीकारे तु 'न यथनाकाङ्क्षे' इत्यत्र क्त्वाप्रत्ययवत् लडादिरपि न विरुध्येत । तथा च यदयं भुङ्क्ते ततः पठतीत्युदाहरणं न स्यात् । सिद्धान्ते तु 'अभीदण्ये णमुल् च' इति विशेषविहितयोः क्त्वाणमुलोरेव निषेधात्सामान्यविहितलडादिर्भवत्येवेति नास्त्येवानुपपत्तिरिति दिक् । पूर्वविषय इति । 'समानकर्तृकयोः