________________
३६२ ] सिद्धान्तकौमुदी। [उत्तरकृदन्तमामोतेणेरयादेशो वा स्याल्यपि । प्रापग्य । प्राप्य । ३३३८ क्षियः। (६-४-५६ ) । तियो क्यपि दीर्घः स्यात् । प्रक्षीय । ३३३६ ल्यपि च । (६-१-४१) वेनो क्यपि संप्रसारणं न स्यात् । प्रवाय । ३३४० ज्यश्च । (६-१-४२) प्रज्याय । ३३४१ व्यश्च । (६-१-४३) । उपन्याय । ३३४२ विभाषा परेः: (६-१-४४) परेर्येमो वा संप्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात् 'हवा' (सू २५५१) इति दीर्घः। परिवीय परिव्याय । कथम् 'मुखं ज्यादाय स्वपिति' 'नेत्रे निमीत्य हसति' इति । ज्यादाननिमीलनो.
उपः । लघुर्वत्वाभावात् पूर्वेण अप्राप्ते विभाषेयम् । क्षियः । 'ल्यपि लघुपूर्वात्' इत्यतो ल्यपीति 'युप्लुवोर्दीर्घश्छन्दसि' इत्यतो दीर्घ इति चानुवर्तते । तदाह क्षियो ल्यपीति । ल्यपि च । 'वेनः' इति सूत्रमनुवर्तते । 'न संप्रसारणे संप्रसारणम्' इत्यतः न संप्रसारणमिति च । तदाह वेञो ल्यपीत्यादि । प्रवायेति । 'वेञ् तन्तुसन्ताने' क्त्वो ल्यप् । 'आदेच उपदेशे' इत्यात्त्वम् । इह 'अहिज्यावयिव्यधिवष्टिविचति' इति संप्रसारणं न । ज्यश्च । ज्याधातोय॑पि संप्रसारणं न स्यादित्यर्थः । प्रज्यायेति । इह 'अहिज्यावयि' इति संप्रसारणं न । व्यश्च । व्येलो ल्यपि संप्र. सारणं नेत्यर्थः । उपव्यायेति । 'व्येञ् संवरणे' क्त्वो ल्यपि 'प्रादेचः' इत्यात्वम् । 'अहिज्यावयि' इति संप्रसारणं न । विभाषा परेः । व्यः इति ल्यपीति संप्रसारणमिति चानुवर्तते । तदाह । परेव्यैः इति । परिपूर्वाद् व्येषः क्त्वो ल्यपि यकारस्य संप्रसारणे पूर्वरूपे च कृते परि वि य इति स्थिते आह । तुकमिति । कथमिति । खापकाल एव मुखव्यादानं हासकाल एव नेत्रनिमीलनम् । एवं च व्यादाननेत्रनिमी. लनयोः स्वापहासपूर्वकालकत्वाभावात् कथं क्त्वाप्रत्यय इत्याक्षेपः । समाधत्ते। व्यादानति । यद्यपि स्वापहसनोत्पत्त्युत्तरकालके व्यादाननिमीलने, न तु तम् । तेनात्राशङ्केव नास्ति, ह्रखादयो हि णौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात् । विभाषा परेः । अप्राप्तविभाषेयम् । प्राप्नोतेरिति । यद्यपीडो णिचि परतः 'क्रीजीनां णौ' इत्यात्वे 'अर्तिह्री-' इत्यादिना पुकि आबिति शब्दोऽस्ति, तथापि तस्य नेह प्रहणं लाक्षणिकत्वादिति भावः । प्राप्येति । एतेन 'अयमयोगिवधूवधपातकैर्धमिमवाप्य दिवः खलु पात्यते, इति श्रीहर्षप्रयोगो व्याख्यातः । अवाप्येत्यस्यावापय्येत्यर्थसंभवात् । एतेन तत्रान्तर्भावितण्यर्थतेति क्लेशमनुभवन्तः परास्ताः। ल्यप्स्थानिना कित्त्वाद् ‘वचिखपि-' इति प्राप्तसंप्रसारणं निषेधयितुमाह । ल्यपि चेति । ज्यश्च । संप्रसारणं न स्यात् । एवं व्यश्चेत्यत्रापि व्याख्येयम् । कथमिति । ल्यबादेशस्य स्थानिभूतः क्त्वाप्रत्ययो दुर्लभः तद्विधौ पूर्वकाल इत्युक्तः ।